पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुबन्धः ३८२ ६८ ] इत्यादि श्लोकत्रयमुदाहृतं सुन्दर पाण्डचवार्तिकस्थमिति चिरात्पूर्वं अस्मद् द्वितीयमीमांसागुरवः म० म० श्री कुप्पुस्वाभिशास्त्रित्रयोः निरू- पितवन्तः । इदं श्लोकत्रयं द्रविडाचार्यकृतमिति श्रीचालकृष्णानन्दसर- स्वतीनामा अत्यन्तमर्वाचीनः कश्चित् स्वकीये ग्रन्थे वदति । अतो द्रविडचार्यः अद्वैतीति ज्ञायत इत्याह । इदं श्लोकत्रयं सुन्दरपाण्डय- कृतमित्याप्ततरेण म.धवाचार्येण विशिष्योक्तत्वात् स द्रविडाचार्यः सुन्दर- पाण्डच एव, न वाक्यभाष्यकारी द्रमिडाचाये इति सुस्पष्टमेतत् । तदुपेक्ष- चैव अयं अभिनवद्रविडाचार्यः | यदि त्वयं बालकृष्णानन्द सरस्वती ट्रांनडभाष्यकारमेव अभिप्रेतीति गमकं किश्चित् स्यात् तर्हि सभ्रान्त इति सद्योऽवचारणीयम् । सुन्द्रपाण्डचवार्तिकमपि देहात्म- प्रत्यय ... इति' इति विशिष्य सुस्पष्टं माधवाचार्येतत्वात् । सुन्दर- पण्डय इत्यभिधा अस्य द्रविडदेशीयत्वमवगमयति । अतोऽयमेव वडावेन अभिनवद्रविडार्यस्याभिमत इति ग्रहणे माधवाचार्योति- विरोधोऽपि परिहृतो भवति । सुन्दरपाण्ड चग्रन्थस्य वार्तिकमिति नाम | बालकृष्णानन्दसरस्वत्यपि स्वग्रन्थं वार्तिकमित्येवाचष्टे । अतोऽ- यमभिनवसुन्दरपाण्डच: सन् अभिनवद्रविडाचार्यो भवतीति सुसङ्ग- तमेतत् । सुन्दरपण्डया इति प्रसिद्धाः प्राचीनाचार्या : उभयमीमांसा.. चार्याः अद्वैतसम्प्रदायस्य प्रवर्तका इति स्फुटमवगम्यते इत्याह स्वयमेव शास्त्रो । उभयमीमांसाचार्यत्वं न प्रवचनेन । अपितु ग्रन्यकरणेन । कुमारिलेन शङ्करेण च तद्ग्रन्थोदाहरणादेव तत्सत्ताया अवगम्यमानत्वात् । इमिडभाष्यकारस्य तदितरग्रन्थकर्तृत्वं न केनापि प्रमाणेनावगम्यते । इदं शतत्व आम्रेडयामास शास्त्री । एवमपि " द्रविडाचार्याणामेव सुन्दरपाण्डया इत्यपि नाम स्यादिति कल्पने माधवाचार्यवचनं च अविरुद्धं भवेत्” इति स्वमतानुरागातिशयेन