विशिष्टाद्वैतसिद्धिः [ ६६ कल्पनप्रमोदानुभवे प्रवर्तते । 'सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि' | किं पुनरितरः । एवं कल्पनमुपक्षिप्य अनुप “सर्वथा द्रविडाचार्याः ३८४ सम्प्रदायप्रवतका इत्यत्र नाक्षेपले- शस्याप्यवकाश इति सुधीर मुद्धोपयामः । इत्यलम | इत्युपसंहरति । यावत् कण्ठनिरोधं यावद् वाग्बन्धं घोपणं सुरम् । प्राज्ञास्तु प्रमाणमपेक्षरन् । न खलु परगर्हामात्रेण सिद्धिर्भवेत् । किं तावद् द्रमिडाचार्यस्य तद्वाक्यं यत् तस्याद्वैतित्वं बोधयति ? १. व्याधसंवर्धितराजकुमारविषयं २. मधुविद्याफलभोगकालविषय ३. शूद्रशब्दव्युत्पादनकषयं ४. ब्रह्मोपनिषद् विवरणपरं ५. संवर्गपदव्युत्पत्तिप्रदर्शनपरं वा द्रमिडभाष्यवाक्यं छान्दोग्यभाष्यसूत्र भाष्यभामतीषु उदाहृतं न द्रमि चार्यस्य अद्वैत सिद्धान्तावलम्वित्ववोधनक्षमम् | तत्त्वबोधनपरत्वाभावात् । ६. अन्तगुण. मेव देवतां भजते । इत्येतत् अन्तगु गमित्यस्य अपार्थंकरोन अद्वैतानुगुगातया हठात् योजितमिति, तत्र शसक्रियमाणा प्रत्यग्गुणामित्यधिकपद प्रक्षेपो ऽप्रामाणिक इति चोक्तम् । अतो यथास्थितं तत् नाद्वैतपरमिति स्पष्टम् । वाक्यान्तराणि चास्मग्रन्थोदाहृतानि सगुणविषयतया 'योज्यन्ते पाठशोधनं च तत्र क्रियते । एवं सङ्कोचान्यथाकरणाद्यनुकूलं कि.पि वाक्यं नास्ति । तस्मात् यथास्थितं अद्वैतपरं एकमपि वाक्यं द्रमिड- भाष्यस्थं स्वग्रन्थेषु परग्रन्थेषु वा उदाहृतं दर्शयितुं न शक्यते । एवं च तस्य अद्वैतित्वघोषणं ऊर्मिमाल्यूमिमालाघोपनिर्विशेषम । ६६. एवं अद्वैतपरं एकमपि ब्रह्मनन्दिवाक्यं वा द्रमिडभाष्यवाक्यं वा नास्तीति सुविशदं निरूपितम् । निर्विशेषं ब्रह्म नास्ति, जगतो
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४९७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति