७ : ७१ ] अनुवन्धः ३८५. मिथ्यात्वं नास्ति इांत परमतम्य कण्ठोक्तचा निरसनविरहेऽपि ब्रह्मणोः रूपगुए महिमादिप्रतिपादनात द्वैतनिरसनमर्थसिद्धम् । निर्गुणवाक्य- सत्त्वे ६ि वःक्थःन्तगणां समुत्परत्वेन सङ्काचः सिद्धयंत् । तदभावात् गुरु. मेच तेषां ते पनपदं परमं तत्त्वमिति निश्चीयते। अद्वैतस्य ततोऽर्वाचीनतया तयोः काले असत्त्वादेव ताभ्यामनिराकरणम् । 'आत्मेत्येव तु गृह्णीयान सर्वस्य तनिष्पत्तेः इत्येतत् ब्रह्मनन्दिवाक्यं तदैन बहु स्यां प्रजायेयनि छान्दोग्योपदिष्ट सर्वसृष्टि परामर्श । तत्र दहु ग्यां प्रजायेयेति उपादानत्वस्य तवैज्ञतेति निमित्तत्त्वस्य चोपदेशात् पुनः 'तत्तंज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजतेति निमित्तःवोपा- दानत्वोपदेशानुवर्तनात तन्निष्पत्तरिति वाक्ये तस्मादुपादानभूतात् निमित्त भूनामच उत्पवित्यर्थो विवक्षित इति स्पष्टम् । तत्र निमित्तत्वन भेदस्य उपादानत्वेन अभेदस्य च प्रतीतेः शरीरशरीरिभावोऽर्थात् सिद्धयति । स उपरिष्ठत सन्मृलाः सांम्चेत्यादिना स्पष्टीक्रियत इति च वाक्याभि प्रायः । अतः वीरात्मभाव एव जगद्ब्रह्मणोर्वाक्यकार विवक्षितः । न त्यधिष्ठानविवर्तभावः । अस्य वाक्यस्य तद्गत्वाभावान | वाक्यान्तरस्य. भवदीयैरप्य प्रदर्शनात् । प्रत्युत शरीरशरीग्भिावप्रत्यायनेन तस्यार्थतः- प्रतिक्षिप्तत्वात् । सर्वस्य तन्निध्यत्तेरिति परैः कल्पतमति, अन्यथा त्वेऽपि विवर्तपरतया नेयमिति भवदुत्तेः प्रलापमात्रत्वात् । तस्मात् वाक्य- आष्यमन्त्रौ अद्वैतप्रतिक्षेपको विशिष्टाद्वैत तत्पररावत्येतत् सुप्रतिष्ठितम् । ७०–७१. श्रीमद्भाष्ये ब्रह्मसूत्रवृत्तिकारी भगवान् बोधायनो नाम्ना- कीर्तितः ! तदीयानि वाक्यानि चोदाहतानि | सप्तस्वेच स्थलेषु तद्वा-- क्योदाहरणमिति गयित्वा कुतोऽधिकानि वाक्यानि नौदाहृतानीति जडप्रश्नं करोति पामरः । वाक्यद्रमिडमाण्याभ्यां त्रिचतुराण्येच वाक्यानि बुद्धौ कृत्वा श्रीशङ्करः तत्र तत्र किञ्चिदुतवान् | तत् कृत. इति तं वृष्ट्वा तस्मात् यदुत्तरं लभ्यते तदेव प्रकृतेऽपीति प्रतिबोधनाधिकं.
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४९८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति