३८६ विशिष्टाद्वैतसिद्धि [ ७२ किमपि वक्तुं नेच्छामः। अथवाऽत्यन्तं प्रतिकूलत्वात् वाक्यद्र मिडभाष्य- योरनुदाहरणं शाङ्करग्रन्थेषु वस्तु विशिष्टाद्वैतै कपरा | तस्याः प्रतिपदमुदाहरणे श्रीभाष्ये ग्रन्थविस्तरो भूयान् भवेदिति तद्वर्जनम् । ७२. 'सुमनसो भौमाः पिबन्त्वन्वहं' इति श्रीभाष्यरलोकव्याख्या- नावसरे भौमपत्रृत्यं विवृण्वन्तो व्यासार्याः 'देवादीनां वृत्तिकारग्रन्था- दिभिः सुगमत्वाद् भौमा इत्युक्तम्' इत्याद्याहुः । एवं श्रीदेशिका अपि "स्वतो विदुषां स्वर्गादिभुवां प्रायो न सूत्रव्याख्यानापेक्षा | सत्यामपि तस्यां विशालधयोग्यैः वृत्त्यादिमिस्ते चरितार्थाः । अतो न वृथाऽत्र भौमत्वोक्तिः।” इति। अनभिज्ञ बहु जपति । एवं वद्भिः वृत्ति- ग्रन्थः स्वर्गादिलोऋ एव वर्तते, न भूलोक इति स्पष्टमुक्तं भवतीत्याह । अनिविस्तृतत्वात् अतिष्लङि क्षत्त्वाच्च वृत्तिवाक्यादयो ग्रन्थाः विशिष्ट- बुद्धशक्तिमतां देवादीनामुपयोगार्हा भवन्ति । अतोन तेषां अभिनव- भाष्यापेक्षा । अतादृशानां मनुष्याणां तु एतदपेक्षा विद्यत इति भौमपदा- भिप्रायं आचार्या वदन्ति । अत्र वृत्तिग्रन्थस्य भूलोकावृत्तित्वं कथमुक्तं भवति । यद्युक्तं भवति तर्हि वाक्यद्रमिडभाष्यग्रन्थयोरपि तदुक्तं मवति । अतिविस्तृतस्येव अंतिसङ्ङ्क्षिप्तस्याप्यत्र व्यावर्तितत्वात् । तत्र वृत्तिमा- त्रस्य भूलोकावृत्तित्वं स्वयमेव एतैः स्पष्टीकृर्तामत्युक्ति: अज्ञत्वदौरात्म्य - प्रकाशनमात्रफला । यच्च स्वयं प्रतिभातवेदतदर्था देवा इति तत्र वक्तव्यं, कथं देवेन्द्रः शरीरातिरिक्त त्मविज्ञानाय एकशतं वर्षाणि प्रजापतौ ब्रह्मचर्यमुवासेति । मनुष्यापेक्षया पटुतरकरणाअपि आत्मज्ञाने आचार्यशास्त्र सापेक्षा एव 'देवःः । 'सर्वेऽस्मै देवा बलिमावहन्तीति श्रुतिव्यञ्जितया रीत्या ब्रह्म- 'विन्मनुष्योऽपि देवानां पूज्यो भवति । “बोधायनवृत्तिः शशशृङ्गायमाा कुत्रापि नास्ति ।" सत्यं नास्ति |
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४९९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति