७२ ] अनुबन्धः ३८७ वाक्यद्रविडभाष्ये अपि न स्तः । ननु ते आस्ताम् । ननु साऽप्यासीत् । कुत इदं ज्ञायते । तत् कुतः । आचार्यनिर्दिष्टत्वात् इति चेत् तुल्यम् । अस्मदाचार्यैर्निर्दिष्टे उदाहृते च ते | वृत्तिस्तु न तथा । अतो न सा सीदिति चेत् । किं यज्ञदत्तस्य पित्राः अनिर्दिष्टत्वात् देवदत्तस्या महा नासीदिति निश्चयां भवितुमर्हति । ननु वोधायनवृत्तेः स्थितत्वे किं प्रमाणम् । ननु "भगवद्बोधायनकृतां विस्तीर्ण ब्रह्मसूत्रवृत्तिं" इति भगवद्रामानुजोक्तिरंव प्रभारणम् । न सा प्रमाणम् । स्वमतस्यात्व- प्रकटनाय कल्पनया तेन तथोक्तेरिति चेत् सा कल्पनेत्यत्र किं प्रमाणम् ? कल्पितत्वनिश्चय हि प्रमाणसापेक्षः । विशिष्टाद्वैतं वैष्णवैः स्थापितं दूपणी- यमित्य भनिवेशं विन। न खलु किमपि तत्रोपष्ठम्भकं वक्तुं शक्यते । यथेदं भवद्धृदयज्ञग्नं भवत् तथा किञ्चिद् ब्रूमः, श्रूयताम् । सूत्रभाष्ये समन्वयाधिकरणान्ते अपि चाहुरित्युक्त्वा पठितं श्लोकत्रयं शङ्कराचार्येण रचयं कल्पितम् | स्वकीयमद्वैतं पूर्वमप्यासीदिति प्रकटनार्थम । तत्रान्यस्य कतुः शशशृङ्गायमाणत्वान् 'अत्रैव ब्रह्मविदां गागामुदाहरति' इति सामान्येनाह वाचस्पतिः । शङ्करकृतां वञ्चनां छादयितुकामः माधवा- चार्य: 'तथा सुन्दरपाण्डचत्रार्तिकमपि' इत्युपक्षेपपूर्वकं तत् श्लोकत्रयं 'पपाठ स्वक यायां सूतसंहिताव्यख्यायाम् । कुमारित्तवार्तिके निःश्रेण्या- रोहणप्राप्यमित्यादिश्लाकोदाहरणात् तत्कर्ता सुन्दरपाण्ड्यः पूर्व- मीमांसाग्रन्थकार इत्येतद्युक्तम् । अद्वैतपरं उत्तरमीमांसाग्रन्थमपि स चकारेति तु केवला कल्पनाऽद्वैतस्य प्राचीनत्वख्यापनाय कृता । अत एव कल्पतरुकारेण वेवायधिकरणे सुन्दरपाड्यनामनिर्देशपुरस्सरं एत- दीयान् श्रुतिलिङ्गाधिकरणश्लोकान् पठताडांप समन्वयाधिकरणे गौण- मिथ्यात्मन इत्यादिश्लोकाः सुन्दरपाण्ड्यवार्तिकस्था इति नोक्तम् । अवश्यवक्तव्यं ह्ये तत् | यस्मान्नक्तं तस्मान्निश्चीयते "नैते श्लोकाः सुन्द रपाण्ड्यस्येति स मेने, इति । यदि श्रीरामानुजसुदर्शन सूरिप्रभृतयः
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५००
एतत् पृष्ठम् अपरिष्कृतम् अस्ति