७३ ] अनुबन्धः ३६१ इति शिवतत्त्वविवेके दीक्षितोक्तमुदाहरन्नाह | स्पष्टार्थैर्वचनैः सुप्रतिष्ठितैः. समीचीनैन्यांयैश्च देवनापारमार्थ्ये आचार्यैरवधार्यमाणे पामरैकह- द्याभिः श्वासमात्रविधूननीयाभिरीहशीभिः क्षुद्रयुक्तिभिः किं भविष्यति । शिवः स्वरूपेणः शिवः । अतः तस्य रुद्र इति स्वनाम्ना कीर्तनं कीर्तय तामशिवावमिति स शिवशब्देनोच्यते । तथा नालवर्धनमिति छेदनं वर्धनशब्देनोच्यते तथा । अत एव 'रुद्रः पशूनामधिपतिः' 'मानः स्तोके तनये' इत्यादिभिर्मन्त्रैः रुद्रहो मे ते उपस्पृश्य' इति वदन्तः अपामु- पस्पर्शनं कुवन्ति । रुद्रो बहुशिरा बभ्रुरिति भगवतरतया प्रयुज्यमानस्य रुद्रनाम्नः रुद्रावकत्व व्युत्पत्तावपि शिवपरतया प्रयुज्यमानस्य हि रोदि- तीति वा रोदयतीति वा व्युत्पत्त्या ऋशुगर्भयाचक्त्वं भवति । 'एषा वा अस्य घोरा तनूर्यद्रुद्रः' इति च श्रुतिः । अतो यत्र तस्य पूजा क्रियते तस्य देशस्याप्यशुद्धिप्रसङ्गान् तत्परिहाराय 'पवित्राणां पवित्रं यो मङ्ग- लानां च मङ्गलम्' इति प्रथितप्रभावस्य विष्णोः तदाबरणे निवेशनम् | विष्णुपूजास्थलस्य स्वयं पूतत्वात् अशुद्धिप्रसङ्गस्य परिहार्यत्वाच्च न शिवस्य तत्र निवेशनमिति विभाव्यम् । शिवनिर्माल्यं सर्वं प्रतिषिद्धम् । विष्णवे समर्पितं तु सर्वं 'यज्ञशिष्टाशिनः सन्तः' इत्युक्तरीत्या परमपाव- नमू । विष्णवे असमर्प्य उपयुज्यमानं तु सर्वं पापाय । शास्त्रैः प्रतिषिद्धम् । अत्रेद’ बोध्यम् । “कामैस्तैस्तैह तज्ञानाः प्रपद्यन्नेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्त्रया |" इत्युक्तरीत्या नानाप्रकृतीनां अनानां तत्तदधिकारानुगुणविविधक्रियोपदेशं कुर्वाणा ऋषयः स्वग्रन्थेषु विहितं सर्वं स्वयमप्यन्वतिष्ठन्निति ग्रहणं मूढकृत्यम् | यो यां यां यां तनूंं भक्तः, न बुद्धिभेद्रौं जनयेत्, इत्यादिनीत्या अप्रवुद्धानामनुग्रहाय तद्- वलम्बितस्यैव मार्गस्य सम्यगनुवर्तनप्रकारं प्रदर्शयन्ति | भगवन्नाराय- णेतरभजनपराः सर्वे 'तेऽपि मामेव कौन्तेय यजन्त्य विधिपूर्वकम्' इति
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५०४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति