७४:८४ ] ३६७ अनुवन्धः काशकृत्स्निा प्रोक्ता मीमांसा काशकृत्स्नी । तामधीते काशकृत्स्ना ब्राह्मणीति ।" अनेन वस्तुस्थितिरियमत्र प्रदर्शिता भवति । तत्त्वरत्ना करे काशकृत्स्न- कृतो देवताकाण्डः कीर्तितः । मेघनादारिसूरिया 'देवताकाण्डस्तु अम्मा- भिरदृष्टचरः । अतस्तत्प्रक्रिया मृग्या' इति वदता स्वस्य तददर्शनं ज्ञापयतःऽपि तत्सत्ता ज्ञापितैव | प्रपञ्चहृदये चायं काण्डः देवताकाण्ड इत्येव निर्दिष्टः । एवं श्रीदेशिकोऽनि 'तत् उपरि चतुर्लक्षणी देवनार्था' इति देवनाकाण्डसंज्ञां बुद्धौ कुर्वन्नेव इदमाह । एवमेषामैकठ्यात् देवताकाण्डः कश्चिदासीदित्यत्र न सन्देहः | परन्तु शबरादिभिर्व्यव हृतत्वात् सङ्कर्ष काण्डः कश्चिदासीदित्यत्रापि न सन्देहः | तत्त्वरत्नाकर- कारप्रभृतयः कुमारवरदाचार्यपर्यन्ता आचार्याः सङ्कर्ष काण्डं वा देवता- काण्डं वा स्वयमनवलोकितवन्तः स एक एव द्विनामा काण्ड इति मेनर इति स्पष्टं ज्ञायते । अतः सम्प्रदायतः पूर्वाचार्यप्रथेभ्यश्च ये विषयाः यानि च सूत्राणि सङ्कर्षस्थतया वा देवताकाण्डस्थतया वा अवगतानि तानि ते तत्र एकत्रैव स्थिततया अगृह्णन | "तदुक्तं सङ्घर्ष 'नाना वा देवता पृथक्त्वात्” इति, इति भाष्योक्तेः इदं सूत्रं, ग्रन्थान्त- रेषु 'अन्ते हरौ तदर्शनात्' 'स विष्णुराह हि' 'तं ब्रह्मेत्याचक्षते तं ब्रह्मे- त्याचक्षते' इत्येषां सूत्राणां देवताकाण्डस्यान्ते स्थितत्वेन प्रतिपादनात् एतानि च तथैवेति जगृहु: । एकस्य ग्रन्थस्य जैमिनिकृतत्वकाशकृत्स्न कृतत्ववप्रतिपत्तौ क्वचिदुपचरितत्वं कृत्वा निर्वाहः कार्य इत्यप्यवोचन् । पतरु कारोऽमलानन्द सरस्वत्यपि सङ्कर्ष देवताकाण्डं च एकं मत्वा 'देवताकाण्डाधिकरणस्य प्रदानभेदविषयस्य पूर्वपक्षं सिद्धान्तं चाह' इति भामतीग्रन्थमवतारयति । अप्पय्यदीक्षितकाले तु सङ्घर्ष काण्डः देव ( भव ) स्वामिभाष्येण सह उपलब्ध आसीत् । तेन सः सङ्कर्ष - काण्डं सभाष्यं स्वयमवलोक्य तस्य देवताकाण्डत्वानुपपत्तिं, तेन कल्प-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५१०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति