पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८ विशिष्टाद्वैतसिद्धिः [ ७४ : ८५ तरुक्तेरनुपपन्नतां च पश्यन् तत्परिहाराय S यद्यपि सङ्कर्ष काण्डो न देवताविचारार्थं प्रवर्तितः... तथापि .....इत्यादि देवताविचारभूयस्त्वात् भूम्ना सङ्घष काण्डस्यैव देवनाकाण्ड इत्यपि व्यवहारोऽस्तीति तस्य तेनोपादानम् । इति शङ्कासमाधाने अकरोत् । अयारीत्या द्वादशलक्षण्यपि देवता- काण्डो भवितुमर्हति । बहुष्वधिकरणे देवताविषयव दारसत्त्वात् । अतः कल्पतरूक्तिसमर्थंनाय कर्मशेषविचारपरस्यैव सङ्कर्षस्य देवता- काण्डत्र्यवहारौचित्यमुपपादयन्नपि दीक्षितः देवता विचारतत्परग्रन्थान्त- रसत्तायां न विप्रतिपद्यत इति स्फुटं ज्ञायते । अस्मिन काले सङ्घर्षकाण्डः पुनः प्रचारमलभन । तत्र 'वचनात् सर्वेषां सहावदीयेत' इति परिमलो- दाहृतं सूत्र' 'सहावदोयेरन्' इति बहुवचनान्ततया चण्डमारुते दृश्यते । एवं ‘तेषां पृथक्प्रदानमवदानैकत्वान्' इति तत्र स्थितेत्र 'तेषां सह प्रदानं' इति दृश्यते । अयमेव पाठः सङ्गतः | नेपाम थप्रदानमिति साधीयान् पाठ उपलब्धः | नयमयूखमत्तिकायां दीक्षितः " जैमिनिना तु उदाहृतं देवताध्यानविधानं तत्र देवतावाचि - शब्दध्यानविषयमिति निरूपितं सङ्घर्षे” इति जैमिनीयं सङ्कषं काण्डं पृथगवोचत् । ततः परं- वृत्तिकारेण संहितमेतत् जैमिनीवेन षोडशलक्षणेनेति कर्मविचा- रार्थया द्वादशलक्षण्या देवताविचाराथेया चतुर्लक्षण्या च ऐकतन्त्र्यं प्रतिपादित मित्युदाहृतं भाष्ये । तत्र फर्मविचारभागे द्वादशानां लक्षणानां धर्मप्रमाणत-द्भेदतच्छेषशेषिभावाद्यर्थभेक सुलभसिद्धः । देवनाविचारभागे चतुर्णां लक्षणानामर्थभेदं इत्यमाहुः – स्वरूपमादौ तद्भेदस्तदुपासनपूर्वकम् । फलं च देवताकाण्डे देवतानां तु कथ्यते ॥” इति ।