- ४ : ८५ ]
अनुबन्धः ३६६ इत्याह । अत्र देवताविचारभागः कश्चिदस्ति । स तु भागान्तरवत् न सुलभः । अतस्तदर्थः पूर्वाचार्यसूक्त्यै वावगन्तव्यः, इति दीक्षितो वदतीति स्पष्टम् । अवको 'देवताकाण्डः शशशृङ्गायमाणः इत्ति दाक्षितः स्पष्टं सूचयनीति कल्पनां करोति । तस्य काण्डस्य प्रचार- विरहात् तत्प्रतिपाद्योऽर्थः साक्षात् ज्ञातुं न शक्यत इत्येतावदत्राहेति अनभिनिविष्टानां सुगममेतत् । देवताविचारार्थया चतुर्लक्षण्या' इति वदन् हि तत्सत्तामङ्गीकरोति । सङ्कषकाण्डः देवताकाण्डञ्च एक एवेति मतिं तु व्यावर्तयति 'जैमिनिना तु निरूपितं सङ्घर्षे देवताविचाराथया चतुर्लक्षण्या' इति विभज्य वदन् | यत्त 'देवताविचारार्थया चतुलें- क्षण्या च ऐक्यतन्त्र्यं प्रतिपादितमित्युदाहृतं भाष्ये' इत्ययमाह | तन्न तथेति भावप्रकाशिकाकारा वदन्ति । 'जैमिनीयन षोडशलक्षणेन' इत्ये- तावन्मात्रं हि तत्रोक्तम् । तत्र चरमा चतुर्लक्षणी देवताकाण्डरूपेति पाष्यकाराभिप्राय इति कथं लम्यते । जैमिनिकृत कर्मविचारपरसङ्कर्ष- काण्डोपलम्भात् पूर्वं यद्यपि तस्यैव देवताकाण्डत्वं पूर्वे व्याख्यातारो मेनिरे तथापि तदुपलम्भात् परं तेनैव षोडर लक्ष सत्योपपत्तेः ततः पृथग्भू- तस्य काशकृत्स्नकृतस्य देवताविचारपरस्य अत एव मुख्यवृत्या देवता- काण्डस्य तत्रान्तर्भावो न युक्तः ऋतु म् । तदिदं पूर्वोदाहृतात् भावप्रका- शिकाग्रन्थात् स्पष्टम् । S जैमिनीयः सङ्घर्ष काण्डः काशकृत्स्नीयो देवताकाण्डः उभावपि मारावभवताम् । अतः कालक्रमेण तयोरैक्यबुद्धिरुदभवत् । तत्र - ॠष इत्येतदपेक्षया देवताकाण्ड इत्येव व्यवहारी निरूढ आसीत् । अत एव तत्त्वरत्नाकरकार आनन्दतीर्थः प्रपञ्चहृदयकारः अमलानन्दः श्रीवङ्कटनाथः कुमारवरदाचार्य इति सर्व इमे तथैव व्यवहरन्ति । देवता- काण्डस्य काशकृत्स्नकृतत्वप्रसिद्धि 'काशकृत्स्त्रिा प्रोक्ता मामांसा' इति महाभाष्यांक्तिः प्रामाणिक करोति । स्वयमनवताकत देवताकाण्डा अपि