[ ८७ ब्रह्मनन्दि द्रविडाचार्ययोरेकमपि वाक्यमद्वैतपरं नोदातमिति सुनि- रूपितम् । अतो गौडपाद एकः परिशिष्यते । एतदुपज्ञं शङ्कराद्वैत- सम्प्रदायः । एतत्सम्प्रदायहीनत्वेनैव भास्कराचार्यनिगकरणं पचपा- दिकादिषु । गौडब्रह्मानन्द शिष्यः अभिनवद्रविडाचार्यपदभाक् बालकृष्णानन्द- सरस्वती उपवर्षादप्राचीनवृत्तिकारानुराधेन सूत्रभाध्यमारचितमिति स्वकीये वार्तिक वदतीत्याह । वाचस्पतिप्रभृतिभिरदृष्टा उपवर्षावृत्ति ह्यस्तनो बालकृष्णानन्दः किल साक्षात् दृष्ट्वा एवं वदति । तस्मानूनं परमं प्रमाणं तस्य वाक्यम् । अहो अहो अत्यद्भुता, सर्वथा दुर्निरसा इयं युक्तिः । अयं किल महान् वार्तिककारः जन्मादिसूत्रभाष्यं त्रिविध- मिति विभागमुक्त्वा “प्रथमं प्राचीनवृत्तिकारमताभिप्रायेण लोकसिद्धल- क्षणपरम् |” इत्याह । लोकसिद्धलक्षरणपरमिदं सूत्रमिति, इदं प्राचीन. वृत्तिकारमतमिति च ज्ञापकं भाष्ये न किविदस्ति । श्रुतिसिद्धमेव लक्षणं विलक्षणब्रह्मसद्भावसम्भावनासिद्धये शास्त्रमनुपादायोक्तम् । इदं एतदधिकरणारम्भ एव 'श्रुतिनिर्देशस्तावत् यतो वा इमानि' इत्या- दिना, शास्त्रयोनित्वाधिकरणे 'पूर्वसूत्राक्षरेण स्पष्टं शास्त्रस्यानुपादानात्” इत्यादिना च भाष्येण स्पष्टम् । न च शास्त्रैकवेद्यस्य ब्रह्मणः लोकसिद्धं लक्षणं भवतुमर्हति । वृत्तिकारप्रस्तावस्तु न भाष्ये न च व्याख्यानेषु । अतः श्रोतॄणां प्राचीनसम्प्रदायानुरोधित्वधीजननाय कल्पनामात्रमिह स्थितम् । व्युत्पत्तिसिद्धे अर्थे अक्षरश उच्यमाने वृत्तिकारमतस्य कः प्रसङ्गः ? । विशिष्टादूतासाद्धः ८. शङ्करात् पूर्वं विशिष्टाद्वैत मतावलम्बी वृत्तिकारों यः कोप- नासीत् । सत्त्वे कथमनेन खण्डनं न कृतम् | स्वमतविरोधि सर्वखण्डन- कारोह्ययम् | अखण्डनादसत्त्वं सिद्ध यतीत्या | प्रतिबोधनं कुर्मः । परस्य ब्रह्मणः निर्गुणत्वं साधयन् सगुणत्ववादः खण्ड्यति । तेन पूर्व
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५१७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति