पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

== ] अनुवन्धः ४०५ सगुणपरब्रह्मवादिन सन्तित् सिद्धम् | जीवत्रह्मभेदं जीवनानात्वं च खण्डयति । तेन एतद्वादन आसन्नित्येतत् सिद्धम् । विश्वस्य तदुः पादानभूतायाः प्रकृतेश्च पारमार्थिकत्वं खण्डयति । तेन तद्वादिन । येत् सिद्धम्। इतः परं विशिष्टाद्वैतिनां प्रति तन्त्रसिद्धान्त - भृतस्य शरीरशरीरिभावस्य खण्डनादर्शनात तद्वादिनः पूर्वं नासन्निति प्रतिज्ञायेत । तत्रेदं तत्त्वम | 'यस्य पृथिव शरीरं, जगत्सर्वं शरीरं ते, 'सोऽभिध्याय शरीरात स्वात्' इत्यादिश्रुतिस्मृतिषु जगतः परमात्म- शरीरत्वस्य स्पष्ट मभिधानात्, जगत इव शरीरशरीरिभावस्य व्यावहारि कस्य अद्वैताविरोधित्वाच्च एतत्खण्डनमकतंत्र्यं शङ्करो मेने | शुद्धचैत- न्यस्य सर्वज्ञत्वादिकारणतया जडद्रव्यस्य शरीरत्त्रव्यवहारमुपपादर्यात च प्रकरणग्रन्थ कस्मिंश्चित् | तदन्यत्रोदाहृतवन्तः स्मः | अतः अखिलय- प्रत्यनीककल्याणैकानं परं ब्रह्म ततो मिन्नान् नाना जीवान्, सत्यां त्रिगुरणां, अचिरादिगम्यां परमां मुक्ति, तत्सावनं भक्तिं चाभ्युपगच्छन्तः बादरायणीय ब्रह्मसूत्रवृत्तिकाराः वेदान्तमन्थान्तरकाराश्च प्राञ्चः सर्वे जगद्ब्रह्मणोः शरीरशरीरिता विशिष्टाद्वैतिन एवेत्यत्र न सन्देहगन्धः । अर्वाचीनास्त्वद्वैतिनः परैरुक्तं सर्वं निराकरणीयमिति मूढग्रहेण जगतो ब्रह्मशरोरत्वनिराकरणे सम्भ्रमं विभ्रति । बौद्धताकिकपरवृढाः वेदवेदान्तसिद्धान्तविध्वंसने बद्धपरि- करा अभवन् । तानभियोद्धुं प्रवृत्ताः नैयायिकाः तेषां प्रसरं निरुन्धाना अपि वेदान्तांसद्धान्तपरिपालने न श्रद्धामकुर्वन् । नापि तत्र ते समर्था आसन् । अतां वेदान्तदर्शनस्य आत्यन्तिकलोपदशा उपस्थिता बभूव । अस्यां स्थितौ गौडपाद: तलरिरक्षणाय किञ्चित् कर्तव्यं मेन । वेदान्तसम्प्रदायस्तदानीं ग्रन्थमात्रशरण आसीत् । प्रवचन- कारा: प्रसिद्धा आचार्यों नासन् | तस्मात् स्वबुद्धिबलेनैव उद्देश्य- निर्वर्तनं तस्य कर्तव्यमभवत् । तत्र वेदान्त विद्यासाध्यस्य मोक्षस्य