पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१ ] अनुबन्धः ४११ एतेन परमातस्य भक्ताङ्घ्रिरेणोर्भाषागाथाऽपि निव्यू ढा । एवं - हिसा संस्कृतेन विपरिणंस्यते – “दिव्यैरवेद्यविभवांत यदि ब्रवन्ति माध्वीमनोज्ञतुलसीक यदीति चाहुः । ऊनक्रिया अपि परानपि कारयन्तो भुक्ताधिकं दति चेन्ननु तत् पवित्रम् | " इति । ‘यदन्त्या मीमांसा श्रुतिशिखरतत्त्वं व्यवृणुत । तदादौ गाथाभिः' इत्यभियुक्तश्लाकेनापि ब्रह्ममीमांसया निर्धारितां यः उपनिषदः स गाथाभिः प्रतिपाद्यत इति उपनिषदर्थप्रतिपादकत्वमेवाच्यते, न तु ब्रह्मसूत्रव्याख्यानरू१त्वम् । अतः सम्भावनेत्युपक्रम्य 'मनागपि नाक्षेपावकाशः’ ‘असन्दिग्धमावेदयती'त्युपसंहारः शास्त्रियः अस्वस्थ- चित्ततामेव प्रकाशयति । आत्मसिद्ध मिडभाष्यकृतेत्यत्र 'भाष्यकृता' इत्येव पाठो दृश्यते । अत्र शास्त्रियः कुकल्पनाया नैवावकाशः । ६१. महत आचार्यान् प्रति [अन्तरमातः पदेपदे परिवहतः इयतः क्रोधस्य द्वेषम्य च मूलकारणमन्त्र प्रकटयति शास्त्री | श्रीदेशिकः शत- दूषण्यां 'अतः तद्वचनकारिषु व्यासादिसमाख्यां सङ्केतेन प्रतिष्य धर्म- सूनुरिव सत्यवादी भव' इत्याह । अतः ईदृशं दोषं न परं देशिके अपि तु सर्वेष्वेव विशिष्टाद्वैताचार्येषु वदयामीति सङ्कल्प्य तदनुसारेण अस्मिन् ग्रन्थे सर्वं वदामीति वदति । मार्जारः किल व्याघ्रं दृष्ट्वा स्वाङ्गेषु तापा- नकरोदिति कश्चिदाभारणकः | सोऽत्र स्मर्यंते । शतषणीशातनं कृत- वानस्मीति लिखति । द्रविडात्रेयदर्शनग्रन्थादेव शास्त्रिगो वैदुष्यं विमश वाटवं आर्जवं प्रामाणिकत्वं लेखनचातुर्यं सर्वं सुव्यक्तम् । अथापि तद् दृष्टिपथमागच्छेत् कर्तव्यमवश्यं करिष्यामः । बोधायनवृत्त्यपह्नवस्य स्वेन साभिनिवेशं क्रियमाणस्य कारणान्तर- मपि ज्ञापयति । शाङ्करे सूत्रभाष्ये बहुषु स्थलेषु बोधायनवृत्तिविरोधः श्रीभाष्यकारैः प्रदर्शितः । स विरोधः परिहर्तुमशक्यः | नास्तीति वक्तुं