४१२ विशिष्टाद्वेतसिद्धिः [ ६२ न शक्यते । अतः " बोधायनवृत्तिरेव नासीन् । भवद्भिः कल्पिता काचन वृत्तिः सा । तद्विरोधो न परिहरणीयः" इत्युक्त्वा सङ्कटादात्मानं मोच- यिष्यामीत्यध्यवस्यति स्म । अतः गम्भीरमिव लिखति - एवं च यानि वृत्तिग्रन्थवचनानि सप्त सप्तसु स्थलेषु रामानुजभाष्ये निर्दिष्टानि तानि नायशिष्यश्रीवत्साङ्कमिश्रकृतवृत्तिग्रन्थस्था- न्येवेति न तद्विरोधः परिहरणीयोऽस्माकम् । इति । साक्षात् सूत्रकारमेव खण्डग्रति शङ्करः आनन्दमयाधिकरणे गुहाधिकरंणे इतरव्यपदेशाधिकरणे कार्याधिकरणे चेत्युक्तम् । वाचस्पतिस्पष्टोक्तिरीत्या श्रुतिविरोधात् सर्वमिदमन्यथाकरणं सह्य- मिति शङ्करो मन्यत इति ऋजुप्रकृतिभिरङ्गीकर्तव्यम् । तदनुगुणहृदय- गाम्भीर्यस्य धैर्यस्य च विरहात् परपरिवादमार्गेऽवतीर्णः शास्त्री मलिन- मात्मानं मलिनतरीकरोति । - ६२. "वृत्तात् कमाधिगमादनन्तरं ब्रह्मविविदिष।" इति वृत्ति- कारवाक्यमुदाहृतं श्रीभाष्ये । इदं शङ्करानन्तरकालिकस्य कस्यचिद् वाक्यम्, न तु प्राचीनवृत्तिकारस्य, इति कथमपि प्रदर्शनीयमिति प्रबला आशापिशाची शास्त्रिां जग्राह । अतो विलक्षणां स्वप्रतिभां तीव्रं व्यापारयन्नाह – ““नन्विह कर्मावबोधानन्तर्य विशेष: ' इति भगवत्पाद- भाष्ये आशङ्कय निरस्ताऽर्थः प्राचीनः साम्प्रदायिकः स्यादिति भ्रान्त्यैव भास्करेण भगवत्प'दप्रद्वेषिणा खग्रन्थे निबद्धः– 'तस्मात् पूर्ववृत्तात् धर्म- ज्ञानादनन्तरं ब्रह्मजिज्ञासेति युक्तम्' इति । अत्र ज्ञानपदस्थ अधिगम- पदं जिज्ञासापदस्थाने विविदिषः पदं च घटयित्वा भास्करभाष्यपंक्तिरे बोधायनत्वाभिमतनाथ शिष्य श्रीवत्साङ्कमिश्र वृत्तावनूद्यते 'वृत्तात् कर्मी- विगमादनन्तरं ब्रह्मविविदिषा' इति, भास्करीतार्थः सम्प्रदायागतः स्यादिति भ्रमेण” इति । एवं भास्करं श्रीवत्सामिश्रं यामुनाचार्यं भग- वद्रामानुजं अन्यांश्च भ्रान्तान् अयोग्यान् घोषयति शास्त्री स्वयमयो- .
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५२५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति