पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ ] अनुबन्ध: ४१३

ग्यानामग्रताम्बूलग्राही सन् । 'नन्विह कर्मावबोधानन्तर्यं विशेषः' इति शङ्करेण स्वग्रमाशङ्कितोऽर्थः, न तु साम्प्रदायिक इति तस्य साम्प्रदायि- कत्वं असन्दिग्धं सुनिश्चितं च सम्यग् जानन्नपि स्वान्तरात्मानं वञ्चयन् लोकवञ्चनायँ लेखित्वा मुद्रयित्वा प्रकटयति, अभीतोऽनृतवादात्, अभीतो दैवान् । ८७ तमे पर्वणि शङ्करात पूर्वं बहवो वृत्तिकारा आसन, इति निरूपाय अनेन पञ्चपादिकायामपि तथा च वृत्त्यन्तरे वर्णितम्' 'अन्यैरपि स्ववृत्तौ वर्णितम् । इति पञ्चपादिकाग्रन्थः प्रदर्शितः । तत्र 'तथा च वृत्त्यन्तरे वर्णितम्' इत्यतः परं "आनन्तर्यवचनोऽथशव्दः । अधिगतानन्तरम् ।" इत्यस्ति । “अन्यैरभि स्ववृत्तौ वर्णितम्” इत्यतः परं “अथेति पूर्व- प्रकृतां वर्नजिज्ञासामपेक्ष्य अनन्तरं ब्रह्मजिज्ञासाप्रारम्भार्थः ।” इत्यस्ति । एवं ब्रह्मजिज्ञासा सूत्रे अथशब्दः कर्मवचारानन्तयपर इत्ये- तत् चिरन्तनसम्प्रदायसिद्धम् । अस्य सम्प्रदायस्य प्रवर्तक: बोधा- यनः । तस्योतिः— वृत्तात् कर्माविगमादनन्तरं ब्रह्मविवि दुषेति इमां बुद्धौ निधायैव 'अधिगतानन्तरं' इत्येको वृत्तिकार | 'पूर्वप्रकृतां धर्मजिज्ञासामपेक्ष्य अनन्तर' इत्यपरः । “पूर्ववृत्तात् धर्मज्ञानादनन्तरं” इति भास्करः । एवमेषु किञ्चित् किद्विपर्यस्य स्वोक्तथा तमेवार्थं वदत्सु श्रीभाष्यकृतः तामेव शब्दानुपूर्वीमुदाजहुः । इत्थं चिरन्तन- सम्प्रदायसिद्धं अथशब्दस्यानन्तर्यार्थत्वं मुक्तिसाधनतया स्वाभिमते ज्ञाने कर्मनैरपेक्ष्यवादी शङ्करः अनुचितं असतं च मन्यमानः प्रतिक्षि- पति । शास्त्री तु प्रामाणिकाः पर्यालोचयन्तु सहृदयाः पश्यन्तु इति निष्पक्षपातत्त्वतत्त्वोपतम्भवैयग्रचार मसाविकभावादिक स्वस्य पढ़े षदे घोपयन् स्वकीयं विप्रलम्भकत्व न कोऽपि ज्ञास्यतीति गाढवित्रम्भः अवशात् स्वस्वरूपमिह सम्यगाविश्वकार | सूत्रभाष्ये कृता शङ्का प्राचीन- !