विशिष्टाद्वैतसिद्धिः [ ६३ : ६४ वृत्तिकारोक्तार्थविषयेति पञ्चपादिकायां स्पष्टमुच्यत इति जाननेव भाष्य- कारेण स्वयं कृतेचं शङ्केति शुद्धमनृतं वदन् रेषु भ्रान्तिं विप्रलिप्सां च अयं शास्त्री क इति वाच्य इति स्वयं प्रामाणिकाः परिशील- यितुमर्हन्ति । ४१४ ६३. अत्यन्तजुगुप्सावहा: कल्पना: पुनरप्यत्र प्रकाशयति । ताः सर्वाः पूर्व कृतैरेव निरूपणैर्विध्वस्ता इति न किञ्चिदिह वक्तव्यं पश्यामः । श्रीवत्साङ्कमिश्रः इमिडभाष्यवस्तृतव्याख्यातृत्वेन यामुना- चार्यैः कथित इति भ्रमं पुनरत्र प्रस्टयति । द्विः कीर्तितं श्रीवत्साङ्कमिश्रं एकत्र 'श्रीकण्ठ' इति पाठं परिष्कुर्वन् अन्यत्र नाथमुनिरेव श्रीवत्साङ्क- मिश्र इति प्रमत्तैलिखित इति कल्पयंच अभावसात् कराति । न्यायतत्त्वं नाम नाथमुनिग्रन्थः न्यायशास्त्रमन्थः वेदान्तदर्शनानुकूलतया प्रमाण- प्रमेयव्यवस्थापक इत्युक्तम् । अस्येदृशं स्वरूपं श्रीदेशिकचरणैः न्याय- सिद्धाञ्जनादिषु ग्रन्थेषु असदुदाहृतैस्तद्वाक्यैरपि स्फुटमवगम्यते । इदं न्यायतत्त्वं शठकोपकृतद्रमिडभाष्यस्व विस्तृतं व्याख्यानमिति अयं महानुभावः अत्यत्यतिसमञ्जसं नितान्तात्यन्तनिकामप्रकामरमणीयं च वावद्यते । ज्ञानसम्बन्धनाम्नः शिवभक्तस्य द्राविडगाथामालिकैव द्रमिडभाष्यम् । तस्य विस्तृतव्याख्याता गौडदेशं गत्वाऽधीत्य निवृत्तः, तेन हेतुना गौडपाद इति प्रथितो द्राविडः कश्चित् । तदुपजीवनेन स्वग्र- न्थानकरोत् शङ्कर इत्यन्यो महानुभावः कथयति । तयं परिशीलयतु । एतदानुगुण्येन सर्वपरिवर्तने सर्वकल्पने च सति इदं तत्वं कुतो स्यात् ? अत्रापि तर्कयाम इत्युपक्रमः | तत्त्वं सर्वे परिशीलयन्तु, इति उपसंहारः । ६४. द्रमिडभाष्यकृतेति पाठेऽपि द्रमिडभाष्यमिति शठकोपगा- थासहस्रं नैव मेने यामुनाचार्यः । गाथाः पठन् यः कोऽपि इदं भाष्य- मिति भ्रममपि न प्राप्नुयात् । अयमुन्मत्तः तत्स्वरूपस्य अत्यन्तानभिज्ञः
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५२७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति