पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५ ] अनुबन्धः ४१७. पाञ्चमिकः क्रमः । कर्ता विद्याधिकारिचिन्तने विशेष्यते । अतिदेशादयश्च 'तदेव रूपं यदमुष्य रूपम्' इत्यादिषु । इति शतदूषण्याम् । 'कर्मविचारोक्तकृत्स्नन्यायसापेक्षत्वाद् ब्रह्मविचारस्य' | 'एत- न्न्यायसापेक्षत्वं सङ्कर्षसापेक्षत्वं च ब्रह्मविचारे तत्र तत्र द्रष्टव्यम्' इति श्रु० प्र० याम् । एवं ब्रह्मविचारस्य नियमेन कर्मविचारसापेक्षत्वात् शङ्करोक्तं तन्निरपेक्षत्वमनुपपन्नमिति परिमलकार एवाह । अथाप्ययं भाष्यानुरोधेन अथशब्दस्य साधनचतुष्टयसम्पत्त्य नन्तर्यपरत्वमेव समर्थयन् ‘‘यः प्रधानविचार: तदपेक्षितमेव पूर्ववृत्तं वक्तव्यम् । निर्गुण- विषयश्च प्रधानविचारः । तदपेक्षितमेव पूर्ववृत्तं वाच्यम् | न त्व- प्रधानसगुर्णावचारापेक्षितः कर्माधिगमः' इत्याह । अत्र कश्चिदाक्षेपः । साधनचतुष्टय सम्पन्नाः परमविरक्ताः निगु णैकनिष्ठाः । ते सगुणोपासनां नैव कुर्युः । ये तु इमां कुर्युः तेषां साधनचतुष्टयसम्पत्त्यभावात् अनधि- कारित्वेन ब्रह्मविचारप्रसङ्गविरहान् सगुणोपासनोपज्ञानवान् तेऽपि इमां कर्तुं न क्षमन्ते । तथा च सगुणोपासनविधिवैयचेप्रसङ्ग इति । अत्र दीक्षितस्त्र समाधानम् | ब्रह्ममीमांसाविद्भयः उपदेशेन सगु- णोपासकैः स्वापेक्षितं ज्ञानमधिगन्तव्यमिति | अनया विषयान् आक्षेपसमाधाने इह वक्तव्ये | ननु ब्रह्मविचारप्रवृत्ताः तत्र सूत्रनिर्दिष्टानां अन्येषां च उपयुक्तानां सुबहूनां कर्ममीमांसान्यायानां ज्ञानमपेक्षन्ते । कर्माङ्गोपासना विचारोपयोगितया तत्तत्कर्मतदङ्गादि ज्ञानं च । तत् तैः कथं सम्पाद्यमिति चेत् धर्ममीमांसाविदां सकाशादुपदेशेनेति । अत्र प्रामाणिकाः पर्यालीच यन्तु | वेदार्थविचाररूपत्वेन उभयोर्मीमां- सयोरेकशास्त्रत्वं स्वरसप्राप्तं परित्यजन्ति । भाष्यटीकोक्तमपि प्रौढिवाद इति कल्पयन्ति । एकशास्त्रत्वं कृत्वाऽपि म्वरसप्राप्तं अथशब्दस्य: