पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः [ ६५. फर्मविवाशनतर्थपरत्वं प्रतिक्षिपन्ति । प्राचीनेषु वृत्तिकारंषु यःकश्चि- देकोऽपि स नास्ति यः कर्मविचारस्य पूर्ववृत्तत्वं नेच्छति, अन्यस्य वा कस्यचित् पूर्ववृत्तत्वं ब्रवीति । षु वा प्रतिक्षेपाय विशिष्टाद्वैता- दिग्रन्थेषु वा अनुदाहरणात् । श्रीशङ्कर एकः स्वाभिमत सिद्धान्तप्रति- कूलत्वात् तथा करोति । निर्विशेषचैतन्यमेकं पारमार्थिकम् | अन्यत् सर्व मिथ्या | तद्भावापत्तिरेव मुक्तिः। तत्साक्षात्कारः साधनम् | अनयोः साध्यसाधनयोः क्वचिदपि कर्मणो नोपयोगः । प्रत्युत विरोध तत् । अतः शङ्करः तद्विचारानन्तर्यरूपमर्थं साग्रहं निराकरोति । एवं च कर्म- विचारानन्तर्यरूपोऽथशब्दाथ: अद्वैतसिद्धान्त इत्युभयमिदं परस्पर- विरुद्धम् | तेन तदानन्तर्यार्थवादिनः प्रायः सर्वे नातिन इति तद्वादी शङ्करः प्राचीनसम्प्रदायाननुरोधी तद्विरोधी चेति स्पष्टम् । न हि उपवर्षः साधनचतुष्टयानन्तर्वार्थमवोचत् । न च ब्रह्मनन्दी द्रविडा- चार्यो वा तमर्थं ज्ञापयामास । तस्मात तेषां तस्य च कृतयुगा- रम्भस्य ततः परं कलियुगारम्भस्य च यावदन्तरं तावदन्तरमिति ज्ञेयम् । ४१८ - समञ्जसस्य वक्तव्यस्याभावात् मुखमस्तीति भाषमाणः शास्त्री ‘वक्ष्यति च कर्मब्रह्ममीमांसयो रित्यत्र जल्पति - कुत्र वयति ? को वा तद्वे देत्यादि । यत्र क्वाप्युक्तवान् भवतु । किं प्रदेशविशेषेण ज्ञातेनाज्ञातेन वा । किं नाम संहितमेतज्जैमिनीयेनेति वृत्तिवाक्यं सन्दिग्धार्थं, येन निर्णयाय प्रकरणापेक्षा भवेत् । शारीरकं ब्रह्ममीमांसाशास्त्रम् । शारीरः सर्वशरीरः परमात्मा | तत्प्रतिपादकत्वात् । अत्राह - 'इदं सूत्रकृतोऽनभिमतम् । 'अनुपपत्तेस्तु न शारीरः' इत्यादिषु जीवस्यैव शारीरपदेन तेनोत्तेः' इति । इदमपि सूत्रकारानभिमतमेव । ब्रह्मजिज्ञासेति सूत्रणात् । शारीरजिज्ञासेति वा जीवजिज्ञासंति वा असूत्रणात् । श्रुतिविरुद्धं च । 'तस्यैष एव शारीर