६६ ] अनुबन्धः ४१६ आत्मा' इति परमात्मन्येव शारीरपदप्रयोगात् । अतः सूत्रेषु प्रकरणानु- रोधेन कर्मकृतशरीरवद्रोऽपि अन्यत्र असङ्कोचन्यायेन सर्वशरीर- कस्यैव ग्रहणं न्याय्यम् । अन्यथा जीवमीमांसेति प्रतीतिप्रसङ्गात् । जीवस्य भ्राहकअनि की कल्पनायां गौरवात् । प्रक्षालनाद्धि- पङ्कस्येति न्यावान्। अद्वैतभिनवीन स्वमतानुराधेनांच्यमानस्यास्यार्थस्य प्राचीनवृत्तिग्रन्थोक्तिषु बाधितत्वाच्च | ऐतदात्म्बमिदं सर्वमित्यनेन अस्य सर्वस्य तच्छरीरत्वमर्थःसद्धम् । इदं 'यस्य पृथिवी शरीर मिति स्पष्ट- माम्नायते । अतः तस्यैष एव शारीर इति परमात्माऽभिधीयते । एतदनु- सारेणैव वृत्तिकृता शास्त्र शारीरकमिति व्यवहृतम् । अतस्तस्य जग- दुब्रह्मणोः शरीरशरीरिभावसम्बन्धत्वादित्वं स्फुटमनेन ज्ञायते । शारीरक - मित्येषा शास्त्रसंज्ञा प्राचीनेषु प्रसिद्धैव श्रीशङ्करेगाप्युपयुक्ता । तस्याः स्वकीयनवानाद्वैत सिद्धान्तानुगुण्याय शारीरस्य जीवस्य प्रत्यगर्थाभेद- बोधकशास्त्रांमति सूत्रभाष्यत्र्याख्याताराऽवपर्यासं चक्रुः । सूत्र- कारस्तु हेयसम्बन्धस्फारणाय जीव शारीरपदं प्रयुञ्जानः प्रकरणादि- वशात् जोवपरत्वं ज्ञास्यन्ति श्रीतारः, न परमात्मपरत्वभ्रमं प्राप्स्यन्तोति भेने । ६६. विशिष्टाद्वैतमतस्य नवीनत्वं वेङ्कटनाथ एव वदतीति प्रति- ज्ञाय 'यतिमाभृद्दृष्टं मतमिह नवोनं तदपि किम्' इति यतिराजसप्तति- श्लोकस्य प्रथमपादमात्रं पठति । ततः प्रागेवान्यद् वद् तदपि किं वर्णनिकषे । निशाम्यन्तां यद्वा निजमततिरस्कार निगमा- निरातङ्काष्टङ्कद्रमिडगुहदेवप्रभृतयः ॥ इत्यवशिष्टं पादत्रयम्। वादता ग्रन्थतो वा विशिष्टाद्वैतं तूं अद्वैतं स्थापयितुं च अशक्ताः केचित् प्रतिपक्षिणः श्रीशङ्कररामानुजयोः काल तः चार्वापर्यमश्रित अस्मन्मतं प्राचीनं युष्मन्मतं नवीन मिति वदन्त
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५३२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति