४२० विशिष्टाद्वैतसिद्धिः [ ६६ आसन् । तत्र प्राचीनत्वनवीनत्वं साधुत्वासाधुत्वयोः सर्वथा अप्रयो जके । न हि प्राचीनां मृत्पिण्डः उत्कृष्यते, नवीनः स्वर्णपिण्ड: अप कृष्यत इति भवति । अतः दर्शनयोः प्रमाणता युक्तितश्च सामीचीन्या- सामीचीन्यविवेकः क्रियताम् इति विवेकजननाय प्रथममभ्युपेत्य वादः पूर्वार्धे । वस्तुतः प्राचीनत्वनवीनत्वे उक्तरीत्या न स्तः | विशिष्टाद्वैतं हि टङ्कद्रमिडगुहदेवप्रभृतिभिराहतं स्वस्वग्रन्थेषु निबद्धं च मतम्, इति तत्त्वोद्घाटनं उत्तरार्धे। अत्रोत्तरार्धमुपेक्ष्य पूर्वार्धग्रथमपादमात्रमादाय स्वमतस्य नवीनत्वं वेङ्कटनाथेनैवाभ्युपगतांमति लिखति । अनभिज्ञप्रता- रणमात्रोद्देश्यम् । अपि वा मातरं गच्छेन्न गच्छेद् देवदारिकामित्यत्र प्रथमपादः स्वार्थमनुमन्यत एवेत्येष नूनं वदति | 9 सङ्कल्पसूर्योदये नवीनत्वमुपक्षिप्तम् । न च तत्प्रतिक्षिप्तमिति ब्रवीति । यतिराजसप्ततो कृतः प्रतिक्षेनः पर्यात इत्यभिप्रायः । अथवा ‘गुरुः— भद्र, किमेतैः किम्पचानैः । अपरे पुनरर्थसंस्पशिदोषवादिनः प्रतिक्षिप्यन्ताम्’ इत्यनेन अर्थशून्य शब्द मात्रेण दूषका नवीनत्ववादिनः, इति, वस्तुतो नवीनत्वं नास्तीति च तत्प्रतिक्षेपः कृत एव । उपरि नाथाश्लेषसनाथनात् श्रुतिवधूवैधव्यखेच्छिदं प्राचीनां नयपद्धतिं यतिपतिः प्राचीकशन्नैष चेत् । इत्यादिभिः प्राचीनत्वं ख्यापितमेव । तदेवं बोधायनस्य वा तदीयवृत्तिग्रन्थस्य वा अपलपितुमशक्यत्वान, तस्य तदनुयायिबहुवृत्तिग्रन्थजातस्य चात्यन्तविरुद्धत्वात् शङ्का सन्निकृष्टानन्तरकाले स्थितेन भास्करेण 'सूत्राभिप्रायसंवृत्या स्वाभिप्राय- प्रकाशनात्' इति वस्तुस्थितेः स्पष्टर्माभिहितत्वाच्च बादरायणोपज्ञस्य वेदान्तसम्प्रदायस्यात्यन्तप्रतीपं गौडादिभिः स्वकपोलकल्पितमद्वैतमिति सिद्धम् । वाक्यभाष्यकारयोर्ब्रह्मनन्दिद्र मिडाचार्ययोरपि निर्गुणब्रह्मवा- दित्वे जगन्मिथ्यात्ववादित्वे च प्रमाणलेशाभावात् प्रत्युत परिणामवाद- ,
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५३३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति