.६७ ] अनुबन्धः भगवदैश्वर्य, रूप, जगत्कारणत्वाद्यभ्युपगमस्य तद्वाक्यैरवगम्यमानत्वाच • तन्मतविरुद्धमेव नवीनमिद्मद्वैतमित्यपि सिद्धम् । ६७. 'यथार्थं सर्वविज्ञानमिति वेदविदां मतम्' इति श्रीभाष्यश्री- सूक्तौ वेदविदामित्यस्य व्यासार्याणां विवरणं – भगद्द्बोधायननाथमु- निमिश्रादीनामित्यर्थः, इति । अत्र सम्प्रदायवाह्यत्वात् विषयानभिज्ञः शास्त्री यथाशीलं कुकल्पनाः करोति । बोधायननाथमुन्योर्मध्ये ब्रह्मनन्दि- द्रमिडाचार्ययोरकीर्तनं विशिष्टाद्वैतसम्प्रदायाप्रवर्तकत्वाभिप्राये-
णैव । अत इमौ अस्य सम्प्रदायस्य पूर्वाचार्यो न भवत इति विवरण - ग्रन्थेनानेन स्फुटमवगम्यत इति । अत्र तत्त्वमिदम् | उपदेशेन ग्रन्थप्रण- यनेन च विशिष्टाद्वैतसम्प्रदायप्रवर्तकानां आपरम्पद्वे भगद्द्बोधायनोपक्रममेका । अत्र ब्रह्मनन्दिद्रमिडाचार्य श्रीवत्सांकमिश्रा अन्तर्भवन्ति । योगे शठकोपमुनिं साक्षात्कृत्य उपदेशं लब्ध्वा श्रीमन्नाथ- सुनिभिः प्रवर्तिता अप अनयोरुभयोः परम्परयोः प्रथमप्रवर्तकौ द्वौ नाम्ना निर्दिश्य व्यासार्या : इतरान् आदिपदग्राह्यान् अमन्यन्त । अतोऽत्र दुर्भाषणस्य न कश्चिदवकाशः । ६८. व्यासपूजाकाले अद्वैतभिः द्रविडाचार्यः पूज्यते । तेन सः अद्वैतीति निश्चीयत इत्याह | व्यासः पूज्यते । किं तेन सः अद्वैती । सूत्रैस्तथाऽनव- गमात् । न च द्रभिडभाष्यवाक्यादे कस्मात् तस्याद्वैतित्वं ज्ञायते । अतो- ऽद्वैतस्य प्राचीनत्वप्रख्यापनाय केवलं तस्य पूजेति निस्सन्दिग्धमिदम् । किञ्च ब्रह्मनन्दिनोऽपूजनात् स नाद्वैतीति निश्चितमिदम् । न च तस्य ख्यानकारः अद्वैती भवितुमर्हति । अतोऽयमन्यः शङ्करवत् गोविन्द- पादशिष्यो वा एतद्वत् गौडपाद शिष्यो वा द्रविडाचार्यः । न द्रमिडभाष्य- कारः । गौडपाद शिष्यपरम्पराघटकत्वात् । शङ्कराचार्य एव वा स्वाचायें- प्राचार्याभ्यां प्रशिष्याभ्यां च सह पुनः पूज्यत इति युक्तम् । शिष्यमात्र- साहित्यमेकत्र । आचार्य प्राचार्य व्यवहितशिष्य साहित्यमपरत्र | भाष्या- ४२१