पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२२ विशिष्टाद्वैतसिद्धिः [ ६६ दिप्रणयनेन वादेषु वादिनां विजयेन च सम्प्रदायप्रतिष्ठापकत्वात् / स्थान- द्वयपूजा शङ्करस्य युज्यत एव । अनेनैव हेतुनाऽस्य मध्ये निवेशनमपि । अन्यत्रोक्तं पूतिगन्धि । अनुवादस्याप्यनम् । आपूर्य वक्त् लशुनैविधाता किं निम्बसारैः कुधियामसिञ्चन् । नो चेत् कथं वाचि ततः क्षरन्त्यां स पूतिगन्धः स च तिक्तभावः ॥ इति नीलकण्ठीया उत्प्रेक्षा साधिष्ठा । ६६. अद्वैतखण्डनपरायाः शतदूपण्याः स्थाने विशिष्ठाद्वैतप्रवर्त- काचार्यपरम्पराकुत्सनपरां अभिनवां शतदूषण करिष्यामीति सङ्कल्प्य सम्बद्धमसम्बद्धं वाच्यमवाच्यं पुनरुक्तं बाधितं विप्रतिषिद्धं सर्वमुक्तत्रापि शतसंख्यायाः पूररामनश्यन् कथश्चित् पूरणाय ते आचार्यत्रन्दनं अद्वैत दर्शनस्य सर्वोपास्यत्वप्रतिपादनं च प्रतिज्ञाय वन्दनानन्तरं “अद्वैत दर्शनं भुवि गैडविलिद्विजैः सेव्यम् ।” इति सर्वोपास्यत्वमबोचतुर्णाटकादविजसेव्यत्त्रव्यवच्छेदेन तात्पर्यमिति मन्यामहे । सर्वोपाम्यत्त्रप्रतिज्ञानान् । अथापि विशिष्य गौडानेव द्रविडानेव चाभिप्रैतीति उत्तरार्धेन प्रतीयते - " द्रविडादि द्रविडान्तं प्रथितं गौडादि गौडान्तम् ।” इत्यनेन । अद्वैतं गौडादि । तदुपज्ञत्वात् । गौडान्तम् । गौडस्य ब्रह्मा- नन्दस्य प्रौढग्रन्थकारेषु चरमत्वात् । इदं प्रथितं प्रसिद्धम् । तद्वदेव द्रविडादि द्रविडभाष्यकारादि । द्रविडान्तं अप्पय्यदीक्षितान्तम् इत्यपि प्रसिद्धिः, इत्याह । प्रथमा प्रसिद्धिरस्ति । जानीमो वयम | चरमा शास्त्रिमुखादिदम्प्रथमं श्रूयते । द्रमिडाचार्यस्य अद्वैतित्वस्थापनोपयोगि- तया अयं कल्पयति । अनुपपन्ना त्वियं अप्रसिद्धा प्रसिद्धिः । मूलकारं ब्रह्मनन्दिनं विहाय कथं भाष्यकारस्य आदित्वम् । न च वाक्यस्य द्र मिडभाष्यमेकं प्रस्थानमद्वैतपरम् | मतान्तरपरमन्यत्प्रस्थानमासीत्,