] ६६ अनुबन्धः ४२३ ततः येन अद्वैतप्रस्थानस्य द्रमिडाचार्य आदिभवेत् । तस्मात् द्रमिडा- दित्यमनुपपन्नम् । तदन्तत्वमपि तथा । गौडब्रह्मानन्दान्तत्वे स्थिते प्राक्तनं दीक्षितमादाय तदन्तत्वकथनानुपपत्तेः । अन्यथा ततोऽपि पूर्व विद्यारण्यमादाय आन्ध्रान्तत्वस्यापि वक्तुं शक्यत्वात् । स्वसिद्धान्तानुरागातिशयतेन आन्ध्येन स्वोक्ता प्रथमा प्रसिद्धिरेव प्रसिद्धचन्तर कल्पनापरिपन्थिनीति शास्त्रो न पश्यति । गौडादित्वप्रसि द्विहिं ततः प्राक्तनस्यादित्वकल्पन. वकाशं निरुन्धे । अत एव गौडपादस्य शुकशिष्यत्वमपि केवलकल्पनामात्रम् | तथा प्रांसद्धिविरहात्। शुक सर्वसिद्धान्तसाधारण्याच्च । तस्य पूजा तु व्यासपुत्रत्वात् भागवतप्रव- क्तृत्वाञ्च । न ह्याचार्यक्रौटो निवेश्यास्य पूजा क्रियते । अतः अद्वैतस्य गौडोपज्ञत्वप्रसिद्धिबलादपि द्रमिडाचार्यस्य नाद्वैतित्वम् । १००. अन्तिमेऽस्मिन् पर्वण एतद्ग्रन्थप्रधानकर्तव्यं अस्मदाचा-- विदूषणं शांकरसूत्रभाष्ये मङ्गलं प्रति यन् तैरुक्तं तदाश्रित्य करोति । श्रीभाष्ये उपक्रमस्थौ द्वौ श्लोकौ न भाष्यत्वमर्हतः । तल्लक्षणाभावात्, इत्यः क्षेपं समाधातुं प्रवृत्ताः व्यासार्याः- किञ्च मङ्गलाचरणं प्रारिप्सितग्रन्थाविघ्नपरिसमाप्त्याद्यतया तदुपयोगीति तदन्तर्भाव्येव । शाबरशांकरादिभाष्येषु नम- स्कारादर्शनादत्र नमस्कार कथनमयुक्तमिति चेन्न | नमः प्रवर- गुणास्पदायेति द्रमिडभाष्ये देवता गुरुनमस्कारश्रवरणात् । शाब- रशांकरयोस्तु ईश्वरानभ्युपगमात् जीवनझभेदानभ्युपगमाच नमस्क|गनादरः। अत्र तु सिद्धान्तानुरूप्यान्नमस्यात्यन्तोप- पन्ना | शांकरग्रन्थोपक्रमे च व्याख्यातृभिः नमस्काराद्यभावात् क्रुग्रन्थत्वमाशंकच युष्मदित्यादिग्रन्थेन प्रत्यगर्थानुसन्धानेन अर्थान्मङ्गलाचारः कृत इति परिहृतम् । इत्याहुः । अत्र शङ्करभाष्यदूषणं न किमपि दृश्यते । समाधानं तु
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५३६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति