४२६ विशिष्टाद्वैतसिद्धिः [ १०० वत्सं रक्ष' इति सद्यो दत्तप्रतिवचनो जड इव तदुपरि बहुभूमं प्रासादं निर्मातुं प्रवर्तते । सूत्रभाष्ये मङ्गलं नास्तीति साधने न कस्यचित् प्रवृत्तिरित्युक्तम | ग्रन्थात् वहिः कृतं तदुन्नेयमिति श्रीदेशिकाः । अथातो ब्रह्मजिज्ञासेति सूत्रानुसन्धानपुरस्सरं भाग्यस्योपक्रान्त्वात् समङ्गलत्वमिति शास्त्रिणा उच्यमानं साध्वंव स्यात् यदि भाष्यमेतदनुमन्येत । तत्तू नैतदनुमन्यने । शावरे अथातो धर्मजिज्ञासेति सूत्रपाठानन्तर मेच 'लोके येष्वर्थेषु' इति भाष्योपक्रमः । तत्र सूत्रपाठ एव मङ्गलमिति सम्भवति । शाङ्करे तु उपोद्धातं समाप्य तदनन्तरं व्याचिख्यासितस्य वेदान्तमीमांसाशास्त्रस्य इदमादिमं सूत्रमित्यवतरणिकां दत्वैव सूत्रपाठः । अतो न तत्सम्भवः। उपोद्धातात्पूर्वमेव इदं सूत्रं पपाठेति चेत् इदं सूत्रमेव पठितम् । न तु शुक्लाम्बरधर श्लोकादिकमिति कथं निश्चयः ? 'अलोच्यैव यत् किचि दसम्बद्धं वदतः किमुत्तरं देयम्' इति श्रीमद्वेङ्कटनाथं प्रत्याह । 'यदन्तरं वायसवैनतेययोः' इत्युक्तमन्तरं स्वपरयोर्बत तपस्वी न वेद । अथ यत् 'युष्मदस्मत्' इत्यत्र प्रत्यगर्थानुसन्धानात्मकं मङ्गलम- स्तीति, तद्देशिका न रोचयन्त इत्युक्तम् | भाध्यं मङ्गलयुक्त मेवेति पक्ष- इयेऽपि समानम् | उन्नेयमेव मङ्गलम् | न प्रत्यगनुसन्धानरूपं तत् । प्रथमश्रुतेन युष्पपदेन सर्वोपसवस्यैव शुभस्योपस्थापनात् इत्येते वदन्ति | 'निष्प्रत्यूह मुत्रास्महे' इति मुरारि श्लोके निष्प्रत्यूह पदवत अखिलपदं अशुभत्र्यावृत्तं बोधयत् न मङ्गलविघाताय भवति । प्रकृतं युष्मत्पदं तु प्रथमश्रुतं हेयमुपस्थापयति । निवर्तनायैव तदुक्तावपि स्य प्रथमोपस्थितिर्न शोभनेति मन्यन्ते । अविनीतः शास्त्री 'अखिल हे प्रत्यनीक निखिलकल्याणगुणाकरी भगवान्' इति भगवदनुसन्धानस्थलेऽपि हेयस्यैव प्रथमानुसन्धानान्न मङ्गला- चरणं सम्पद्येत ।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५३९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति