१०० ] अनुबन्धः ४२७ इत्युद्धतं लिखति । यदि ग्रन्थारम्भे क्वचिदेवमुच्येत, निश्चितं तत् न सम्पद्येतैव मङ्गलम् । श्रीमद्गीताभाष्ये प्राचार्य वन्दनात्मकमङ्गलाचरणा- नन्तरमपि “श्रियः पतिर्निखिल हेयप्रत्वनीक" इति ग्रन्थमारभते भगवान् भाष्यकारः । शरणागतिगद्ये च श्रीप्रपत्तितद्दत्तवरप्राप्रिनिबन्धनानन्तर- मेव 'अखिल हे प्रत्यनीककल्याणैकतान' इति भगवत्प्रपदनमारभते । सर्वतन्त्रस्वतन्त्र श्रीसूक्ति गौरवमजानन् शास्त्री विवृत्य धृतात् आत- पत्रात् ग्रामीणशकटवृषभ इव सम्भ्रान्तः अपये दूरं धावति । युष्मत्प- दस्य हेयोपस्धपकतया अमङ्गलवे स्थिते वह्निदेवत्यरगणरूपत्वमपि तत्राभ्युच्चययुक्तितया कथितम् | अग्निमीले इत्यादौ तु अनयन समर्थ- महाप्रभावशालि देवताविशेषस्मरणात्मकोत्तममङ्गलेन सर्वक्षुद्रदोषनि- वृत्त्या रगरणरूपत्वं न गणनीयम् । 'मा निषादेति न ग्रन्थारम्भश्लोकः । ननु स एव लौकिक श्लोकेषु प्रथमः | रामायणे मध्ये निबद्धोऽपि स एव हि वाल्मीकिवदनात् प्रथमं निर्गतः, इति चेत् तर्हि मानिषादेति महालक्ष्मीनिवासभूतवक्षःस्थलस्य भगवतः परममङ्गलस्योपस्थापनेन ‘मा' इत्यनेनैव महालक्ष्म्याः मङ्गलदेवताया उपस्थापनेन च सर्वाशुभ- निवृत्तेः सिद्धत्वान्नानुपपत्तिः काचित् । भगवत्पादानां भाष्यं निःश्रेयसका मैरुपास्यम् | अद्वैतानुभवच सम्पादनीयः । तेन परां च शान्तिमृच्छेत् । । इत्यव्युत्पन्नवाक्येन दूषणपुस्तक मवसाययति शास्त्री । उपास्यं, 'सम्पाद- नीयः, इति बहुकर्तृकः कर्मणि प्रयोगः । अथ ऋच्छेदिति अश्रु तैक- र्तृऋः कर्तरि प्रयोगः। अतोऽव्युत्पन्नतां ब्रूमः | अतिक्षुद्रमेतत् । नायं दोषः अस्माकमुद्भावना । अथापि एवमेतं लेखयन् सर्वेश्वरः ‘तानहं द्विषतः क्रूरान्' इति स्वयमेत्रोक्तरीत्या आसुरीषु योनिषु क्षेपायैव एवमेतं ग्रन्थं लेखयाम।सेति इदं स्खलितं सूचयतीति ज्ञायनाय इदं प्रदर्शनीय- मभूत् | आस्तामेतत् । निश्श्रेयसकामैः भगवतादानां भाष्यमुपास्य-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५४०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति