४२८ विशिष्टाद्वैतांसद्धिः [ १०० मित्याह | इदं अयं अन्यो वा अद्वैतज्ञो महात्मा सम्यङ् निरूपयेश्चेत् अस्माकं परमः सन्तोष: स्यात् । संसारनिवृत्त्यनन्तरं यद् भवति तद् भवतु | तन्निवृत्तिः निःश्रेयसमित्यत्र नास्ति विप्रतिपत्तिः । तत्कामस्य कथ- मुपकरांति इदं भाष्यम् | एकजीववादे शुक्रवामदेवादीन् पूर्वमेव मुक्ततया प्रसिद्धानपि अमुक्तान् करोति । तदास्ताम् | त्वं असंसारि शुद्धचैतम्य- मिति श्रोतारं बांधयति । प्रत्यक्षमहं संसार्यस्मि । कथमसंसारीति स पृच्छति । भ्रमसिद्धोऽय संसारः न वस्तुसन् । अतस्त्वमसंसार्येवेत्युत्त- रम् | कस्य भ्रम इति पुनः प्रश्नः । यस्त्वं पृच्छसि तस्य त इत्युत्तरम् । अहमसंसार्यात्मा उक्तः । कथं मे भ्रमः इति पुनः प्रश्नः । एवं प्रबोधे नास्ति कस्यचिद् भ्रम इत्युत्तरम् । अनेन प्रष्टुस्तृप्ति भवति । पू भ्रंम आसीत् | स पश्चान्निवृत्त इति वाऽभिप्राय ! पूर्वमपि नासीदिति वा । भ्रान्तः संसार्येवायम् | हमसंसात्मेति प्रत्यक्षबाधितमनुसन्धानं नैव भवेत् । अन्त्ये नित्यमुक्तोऽयम | न मुक्तिः काम्या साध्या वा । नित्य- सिद्धत्वात् । नापि तत्साधनमन्वेषणीयम् । अनुष्ठानस्य का कथा । भाष्यं किं ब्रवीति ? इदमेव ब्रवीति, नान्यदत्याह तत्र भषान् वाचस्पतः · परमार्थस्तु न विभ्रमां नाम कश्चित् । न च संसारो नाम । किन्तु सर्वमेतत् सर्वानुपपत्तिभाजनत्वेन अनिर्वचनीय मति युक्तमुत्पश्यामः । तद्नेनाभिसन्धिनोक्तम – यद्येवं प्रतिबुद्धोऽसि नास्ति कस्यचिद् प्रतिबोध इति । अन्येऽध्याहुः – 'यद्यद्वैते न. तोषोऽस्ति मुक्त एवासि सर्वदा' इति । इति आत्मेति तूपगच्छन्तीत्यत्र | अद्वैततत्त्वमिह निस्सन्देहं सुस्पष्टं प्रतिपादितम् । मुमुक्षया वेदान्तश्रवणे प्रवृत्तिः । श्रवणनिश्चिततात्पर्या वेदान्ताः कि वदन्तीति चेत् वस्तुवृत्त्या मोहस्य तदधीनसंसारस्य चाभावात् नित्यमुक्त एवात्मा | मुक्तिकामना वा तदर्थ प्रवृत्तिर्वा न
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५४१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति