पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०० ] अनुबन्धः ४२६ कर्तग्या । तर्हि शास्त्राणि किमर्थं मुक्ति साधनमुपदिशन्त ति चेत् शास्त्राणि, तत्कृता उपदेशाः, सर्वमिदं मिथ्या | सर्वमनुपपन्नमनिर्वचनीयम् । अत एवात्मनो नित्यमुक्तत्वे लोकव्यवहारः सर्वः किंतु इत्यादि- प्रश्नानामनवकाशः । सर्वस्यानुपपन्नत्वेन अयं हेतुः अयं स्वभावः इत्यादे- निर्वक्तुमशक्यत्वात् । अनुपयन्नतैक स्वभावे उपपत्त्यन्वेषणस्यायोगात् । ननु वस्तुतत्त्वे एवं स्थिते शास्त्रमेव व्यर्थमिति चेतु कामं तथा । अथ कथं तदादर इति । स्वप्नचन् । एवं च अद्वैतं न निःश्रेयसार्थम् | तस्य नित्यप्राप्तत्वात् । न त्रिवर्गार्थम् | साक्षाद्विरोधित्वात् । वध्यधातुक भाव एव हि लोकस्याद्वैतस्य च सम्बन्धः । इत्थं निष्फत्तमद्वैतमथबा सप्रयोजनम् । इतरैः कलहार्थत्वाज्जीविकालम्भनेन च ॥ न च शक्यमिदं वक्तुं विशिष्टाद्वैत दर्शने । ऐहिङ्क्रामुष्मिकश्श्रेयोहेतुभक्तिविवर्धने ।' भगवद्गुणचिन्तोत्यपरमानन्ददायिनि । अस्मिन् कालेऽपि सर्वेवां प्रपत्त्या मुक्तिसावने || सर्वेषामपि मानानां न्यायानामपि सर्वशः । श्रुनीनामपि सर्वासामे कानुग्रहभाजने ॥ इत्युक्तमन्तरं किञ्चित् स्वपक्षपरपक्षयोः | दैवाद् भीतेन ऋजुना सौजन्ये दत्तदृष्टिना || सात्त्विऋद्रूष राघोषः शास्त्रिकृतः स्वात्मद्रूपणैकफलः । दृषदि हि मुट्यभिवाती मुष्टिरु जाहेतुरभिहन्तुः ॥