पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुबन्धः २. ( भूमिका ) शतसङ्ख्येषु पर्वसु विस्तरेणोक्तान् अपार्थान् सङ्गृहन् काञ्चिद् 'भूमिकां' लिखितवान् शास्त्री । तत्रापि वक्तव्यं किञ्चिद् ब्रूमः । १-२ टकापरनामा ब्रह्मनन्दी छान्दोग्योपनिषदः अतिसङ्क्षिप्त- विवरसकारः | तस्य विवरणस्य वाक्यमिति नाम । अस्य वाक्यस्य व्याख्यानं द्रमिडाचार्यकृतं भाष्यमिति प्रसिद्धम् | उभाविमावाचार्यै ग्रन्थौ च विशिष्टाद्वैतपरौ । ग्रन्थेषु उदाहृतेभ्यो वाक्येभ्यस्तथा प्रतीतेः । न त्वद्वैतपरौ । श्रीशंकरप्राचार्यगौडाचार्यात् प्राक् जगन्मिथ्यात्वनिर्गुण- ब्रह्मवादिनोऽद्वैतस्य अत्यन्ताभावात् । वाक्यग्रन्थात् भाष्यग्रन्थाद्वा तथाविधाद्वैतगमकस्य एकस्यापि वाक्यस्य अद्वैतभाष्यकारेणान्येन चाऽनुदाहरणाच । ३. छान्दोग्योपनिषदि नानाफलानि बहूत्युपासनानि विधीयन्ते । तत्र प्रथमाध्यायप्रभृति उपदिष्टाः अन्तरादित्यविद्या, शाण्डिल्यविद्या, मधुविद्या, वैश्वानविद्या, उपकोसलांवद्या, पञ्चाग्निविद्या, सद्विद्या, भूमिविद्या, इतीमाः सर्वा ब्रह्मविद्याः मुक्तिफलाः । विद्या उपासनरूपा एकविधैव । न तु उपासनातिरिक्तं ज्ञानं नाम मुक्तयु पायोऽस्ति । ब्रह्म च सविशेषमेकमेव । न तु निर्विशेषं ब्रह्म किञ्चिदस्ति । पष्ठसप्तमाध्याययो- रिव अष्टमाध्यायस्य एकविद्यापरत्वे वक्तव्ये विद्याद्वयपरत्वकल्पनं, उत्तमाधिकारिविपर्यानविशेष ब्रह्मविद्यापरतयाऽभिमते चरमेऽध्यायत्रये मध्ये मध्यमाधिकारिविषयद्हरविद्योपदेश कल्पनं च तस्य उपनिष- दभिप्रायबहिर्भतत्वं सुस्पष्टं प्रकाशयति । सविशेषमुपास्यमेक्रमेव सर्वासूपनिषत्सु उपदिश्यमानं ब्रह्म । निविशेषं ज्ञेयमित्येवंरूपमन्यत् किमपि कुत्रापि नास्ति ।