पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३४ विशिष्टाद्वैतसिद्धिः [६५:१६ः१७:१८ वाक्यद्रमिडभाष्य- कत्वपारमार्थिकत्वयोर्भेदकल्पनस्यात्यन्तमर्वाचीनत्वेन काले अप्रसिद्धत्वात् । 'न | संव्यवहारमात्रत्वात्' इति वाक्यस्य सत्का र्यवादस्थापकत्वमेव, न तु मिथ्यात्वसाधकत्वमिति निरूपितत्वात् । बाचारम्भणं विकारो नामधेयमिति श्रुतिवाक्यार्थनिरूपणेनैव एतद्वा- क्यमपि सुनिरूपतार्थमिति एतद्विवरणे पूर्वाचार्या रणामप्रवृत्तिः। संव्य- वहारशब्दश्रवणात् अद्वैतानुकूलमेतदिति मत्या अमलानन्दुप्रभृतयः पूर्वग्रन्थेषु पठितमिदं स्वयमपि पठन्ति । १४-- १६. 'युक्तं तद्गुण कोपासनात्' इति वाक्यं तस्य द्रमिडभाष्यं च हठादद्वैतं प्रति कर्षन्ति संक्षेपशारीरकादिकारा इति पूर्व ३० प्रभृति षट्सु पर्वसु निरूपितवन्तः स्मः | अन्तगु ऐति भाष्ये गुणशब्देन सर्व- विद्यानुयायिनः सत्यज्ञानातन्वा मलत्वरूपाः पञ्च स्वरूपनिरूपकगुणाः, सर्व- जगत्कारणत्वाद्यः तत्तत्प्रकरणप्रतिपाद्या विशेषगुणाश्य विवक्षिता इति ग्रन्थेषु स्पष्टमुक्तम् । ‘‘परे तु कोऽसौ गुण इति प्रश्नस्य प्रतिवचनमनुक्त्वैव गुणस्यान्तर्विद्यमानत्वमात्रं वदन्तः' इत्यादि लिखति शास्त्री । 'न ह्येष स्थाणांरपराधो यदेनमन्धो न पश्यति । " तु १७. सिद्धन्तु निवर्तकत्वादिति व्याकरणवाक्यं, न तु छान्दोग्य- वाक्यमित्यवोचाम । तस्य च, प्राप्तिविरोधिकर्मनिवर्तकत्वादुपासनात्मकस्य वेदनस्य मोर्ज्ञानत्यत्ववादिशास्त्रप्रामाण्यं स्थित मेवेत्येवमर्थकत्वात् नास्ति अद्वैतसम्मतमिथ्यासंसार निवर्तकत्वपरत्वम् । अस्य ब्रह्मनन्दुि- वाक्यत्वाभावादेव सङ्गतार्थन्वेऽपि श्रीभाष्यकारैरनुदाहरणम् । व्याधकुल- वृद्धराजकुमार दृष्टान्तः श्रीभाष्यकारैः समन्वयाधिकरणे श्रीदेशिकचरौ श्रीसारशास्त्रे च सुनिरूपितः । १८. 'आत्मेत्येव तु गृह्णीयात्' इति वाक्येन परमत्मनः जीवा- भिन्नतया चिन्तनमुदितं वाक्यकारैः', इत्याह । केन शब्देनात्र परमात्मनो जीवाभेदो बध्यते ? उपासकः परमात्मानं स्वस्य आत्मेति गृह्णीयात्,