पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३६ विशिष्टाद्वैत सिद्धिः [ २२:२३:२४:२५: ६ २२. छान्दोग्यं वा वा उपपरा न काचिदस्ति | अतएव तद्विवरणपरं वाक्यं एतद्विवर भाष्यं च नैवानप्रतिपादकम् | विस्तृत ब्रह्मसूत्र वृत्तिकारबोधायनमनानुसारिणी इमे द्वे चिरन्तनवैदि- कसम्प्रदा'यसिद्ध विष्णुविशिष्टाद्वैतनिष्ठे । ब्रह्मनन्दिद्रामडाचार्यो ब्रह्मसूत्रवृत्तिकाराविति प्राञ्चः केऽपि न वदन्ति । २३. यामुनाचार्यः आत्मसिद्धी द्रामडभाष्यकार इति शठकोपमु- निमाहेति विकटकवीनां भरिणतृमुचितम् । न गम्भीर विमर्शनप्रवरणानां विचक्षणानाम् । आत्मसिद्धौ भाष्यकारणेत्येव पाठ उपलभ्यते । तत्र हास्यपरतयाऽपि अन्यार्थकथनमशक्यम ! २४. जात्यन्धा रूपविशेषविषयं सिद्धान्तमिव शास्त्री शठकोपमु- निकृतदिव्यप्रबन्धविषयं उपहास्यं कल्पनाजालं करोति । शठकोपगाथा- सहस्रस्य श्रीवत्सांकमिश्रकृतं व्याख्यानं नैवासीत् । अत्र वक्तव्यं सर्व पूर्व ६० पवांदिषु सविस्तरमुक्तम | २५. पाश्चरात्रस्य त्रामाण्ये प्रामाण्ये वा औपनिषद्स्य विशि- ष्टाद्वैत सिद्धान्तस्य न कश्चन विशेषः । न ह्ययं सिद्धान्तः पाश्र्वरात्रप्रा- 'माण्यावष्टम्भेन प्रवृत्तः । न हि श्रीमद्भाष्ये पावरात्राधिकरणं विनाऽन्यत्र क्वापि पचरात्रवचनं प्रमारतयांदाहृतम् | अपि परमतप्रतिक्षेपपरे 'पादे विचारात पाञ्चरात्रप्रामाण्यमपि प्रतिक्षेप्यमिति केषाश्चिद् भ्रमं सूत्राणां यथावद्व्याख्यानेन निवर्तवन्तः यामुनाचार्य प्रभृतयः पाश्र्वरात्रा- प्रामाण्यमेव प्रतिक्षेप्यं, न तु प्रामाण्यमिति सूत्रकार भिमतं वस्तुतत्त्वं निरूपितवन्तः । श्रीवत्साङ्कमिश्रोक्तं विरुद्धशे अप्रामाण्यं कृत्वाविन् त्वेन व्याचक्षत | बोधायनवृत्तेरत्यन्तं विरलप्रचारत्वाद् भास्करादिभिर- नुदाहरणम् । २६. अतिविस्तरभीरुभिः यत्र अवश्यं मूलग्रन्थवाक्यमुदाहृतव्यं भाति तत्रोदा हियते । अन्यत्र तदुक्ता अर्थाः तन्नामनिर्देशं विना स्ववा