( 35 ) ग्रन्थकरणे ग्रन्थकाराणामपि दया आवश्यकी । अमाराप्रमाणिकार्थप्रति- A ९ पादकग्रन्थकरणे तदंशेनः सामान्यजनाः श्रान्तः विनष्टाश्च खलु भवेयुरिति भेतव्यम् । विदुषामपि तद्दर्शने विनियुक्तः कालः अत्यन्तं विफलो हि भवे दिति पर्यालोयनीयम् । नैवम्प्रकृतिः शास्त्री । कुग्रन्थान् कुर्वन्नेव वर्तते । स्वसिद्धान्तस्य अणुमात्रोऽप्युपकारः तदीयैर्गुन्यैनं भवति । परसद्धान्त दूपणेऽर्षि अभिनवा काचिद् युक्तिर्ने प्रदर्शयेते । प्राचीनग्रन्थपङ्क्तरेव अयथायथं विलिख्य विषयान् व्याकुलयति । तस्मादेतद्ग्रन्थनिराकरणे सर्वथा औदसीन्यमस्माक्रम् । सिद्धान्तसिद्धाञ्जनरान् कृष्णानन्दयतेरपि उत्कटतरं विशिष्टा द्वैताचार्येषु दोषं कुर्वन् करुङ्गलं कृष्णशास्त्री सूत्रानुगुण्यनाम्नीं ग्राम्यः निन्दाचक्यमत्रतरां काञ्चन कृतिमकरोत् । परनिन्दाप्रवण्यमेवास्य स्वमतविषयाणां समञ्जसोपपादने मतान्तरस्य ऋजुना । मागेण निरसने च असमर्थ प्रकाशयति । इभमदैतस्योपरि श्रीभाध्ये उद्भावितानां दोषाणां परिहारो यन लभ्येत तथाविधे प्राचीने नवोने वा ग्रन्थे अत्यन्तं दुर्लभे सति वस्तुतः विशिष्टाद्वैतमेव औौपनिषदं मतमिति अध्यवसातव्यमासीत् । न परं तत् ।। येन केनपि विदुषा अद्वैतं पारमार्थिकमिति वस्तुतो मन्तुमशक्यामि त्यपि प्रत्ययोऽजायत । तेन सन्तु ग्रन्थाः । ये अद्वैतपण्डिताः सन्ति ते अद्वैतं स्वबुद्धौ कथं गृहन्ति कथं तत्र श्रद्धां कुर्चन्तीति ज्ञातुमिच्छ प्रबला अजनि । परन्तु प्रश्ने कृते दूषणप्रवृत्तं मां मत्वा । तटिति प्रकुप्ये युरिति भिया तूष्णीम्भाव एव चिरमवालम्ब्यत । मतत्रयविद्वत्समवायवति कस्मिश्चित् सदसि तदध्यक्षपदमधिति- ष्ठता अद्वैतिना महापुरुषेण जिज्ञासुंना शुद्धस्य चैतन्यस्य कथमविद्या सम्बन्ध इति कृतं प्रश्नं समाधातुं प्रवृत्तः अद्वैतविदामग्रणीः कश्चित् आकाशतलमलिनतादिनिदर्शनमुपन्यसितुमारभत । सद्यः प्रष्ट्रा ‘निदर्शनं
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति