पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ : २८] अनुबन्धः २. ४३७ क्यैरेव प्रतिपाद्यन्ते । ‘तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते' इति प्रतिज्ञाय अभिहिनाः सूत्रार्थाः सर्वे पूर्वाचार्योक्ता एवेति हि स्पष्टमव- गम्यते । अथशब्दस्य कर्मविचागन्तर्यार्थत्वं, मुक्तिनाघनतया वेदान्त- विहितस्य वेदनस्य उपासनरूपचं. उपासनस्य च कर्मापेक्षत्वं, अचिरादि- मार्गेण देशविशेषे मुत्तेः प्राप्यत्वं च वृत्तिवाक्यभाष्यग्रन्थोदाहरणपूर्वकं विस्तरेणु निरूपितबद्भः पूर्वाचार्यमतविरुद्धमद्वैतस्य सुप्रदर्शि- तम् | प्रथमसूत्रे प्रथमपदस्य स्वरमप्राप्तं कर्मविचारानन्तर्यार्थत्वं प्रति- क्षिपन्तः स्ववुद्ध्या अर्थान्तरं ऋल्पयन्तञ्चाद्वैतिनः चिरन्तनवेदान्तसम्प्र- दायप्रतीपगा:मन इनि सर्वसुग्रहमेतत् | एतद्ज्ञापनायैव श्रीभाष्ये अथ- शब्दःथनिवरणावसर एव अद्वैतस्य विस्तरेणापन्यस्य निरसनम् । २७. श्रीकण्ठः सुदर्शनसूरिवेङ्कटनायादिभ्यः अर्वाचीन इति सम्यङ् निरूपितवन्तः स्मः । २५. विशिष्टाद्वैतमतचोरः श्रीकण्ठ इति कैश्चिदुच्यमानं पारमा- थिंक्रमेव । न तत् केनापि प्रतिक्षेप्तुं शक्यम् । स्वसिद्धान्तस्य मूलं इत्थं प्रकाशयति भगवद्रामानुजमुनिः- तदेतत् नानाविधान•तश्रुतिनिकर शिष्टपरिगृहीततद्व्याख्यानप रिश्रमाद्ववारितम्, इति, भगवद्बोधायन टंक द्रमिड गुहदेव कपदि भारुचि प्रभृति विगीत शिष्टपरिगृहीत पुरातन वेद- वेदान्त व्याख्यान सुव्यक्तार्थ श्रुतनिकर दर्शितोऽयं पन्थाः, इति च । ये तत्त्वविषये सामान्यत उक्तमेव द्वितीयवाक्ये उपाय- विषये विशेष उक्तम् । भगवद्बाधायन टंक द्रमिडा: पुरातन वेदान्त व्याख्यानकाराः । गुहदेवः कपर्दी च पुरातनवेदव्याख्यानकारौ तत्र गुहदेवः साक्षाद् वेदव्याख्यातेति रामाण्डावृत्तितां ज्ञायत | ऋपर्दी आपस्तम्बश्रौत सूत्र व्याख्यातेति एतद्भाष्यस्याद्योपलम्भाद् ज्ञायते । '