३५ । अनुबन्धः २. ४३६ इत्यपि | उभयनामाऽयं एक एव भाग इति बहूनां मांतः । परन्तु अद्य संङ्कर्ष काराडोनन् तत्र देवताकाण्डप्रतिपाद्यतया ये अथां प्रसिद्धाः तेषामदर्शनातू, सङ्कस्य जैमिनिकृतत्वेन देवताकाण्डस्य च काशनकृतत्वेन प्रसिद्धत्वच मिथो भिन्नौ द्वाविमौ काण्डौं । तत्र देवताकाण्डोऽत्यन्नं लुप्त इति वक्तव्यं भवति । ३२. 'वृत्तात् कर्माधिगमा दनन्तरं ब्रह्म विविदिषा' इति वृत्तिकार- वाक्यं श्रीभाष्ये उदाहृतं वस्तुता न वृत्तिकारवाक्यम् | भाष्करभाष्यं दृष्ट्वा कल्पितमित्याह शास्त्री । अस्य विप्रलम्भक्त्वं ६२ पर्वणि प्रदर्शितम् । ३३. सम्प्रदायवाह्योऽयं श्रीसुदर्शनसूरवाक्यं यथावदवगन्तुं न क्षमत इत्युक्तवन्तः स्मः | सूत्रभाष्ये समन्वयाधिकरणान्ते पठितं श्लोकत्रयं सुन्दरपाण्डयापरनामधेय द्रमिडाचार्यकृतं, यद्वा शङ्करा- चार्येणैव कृतमित्यन्त्रूम | ३४. व्यासपूजाकाले अद्वैतिभिः पूज्यमानो इमिडाचायः ब्रह्म- नन्दिविनाकृतत्वात् न भाष्यकारद्रमिडाचार्य: अपितु श्रीशङ्कर एवेति प्रत्यपायाम | ३३. अद्वैतं औपनिषदं न भवति । जगद्ब्रह्मणोर्भेदस्य, सृज्य- मानतया जगतः सत्यत्वस्य, जीवभेदस्य, मुक्त्युपायतया उपासनस्य, देशविशेषे प्राप्यस्य सगुणब्रह्मप्राप्तिरूपस्य फलस्य च तत्रोपदेशात् । एषां विशदीकरणाय प्रवृत्तं ब्रह्मसूत्रमपि अद्वैतं नानुगृह्णाति | ज्ञान- वासिष्ठं केवलकर्मठानां ज्ञाने आभिमुख्यजननाय प्रवृत्तं अर्थवादरूपं न तत्त्वनिपरम् | उपवर्षस्य अद्वैतस्य च कालिकसम्बन्धोऽपि नास्ती- त्युक्तम् । गौडपादोपज्ञ प्रवृत्तमिदमिति परमार्थोऽयम् । श्रीशंकरादिभिः प्रौढैर्बहुभिरपि ग्रन्थकारैः अद्यायलब्धप्रतिष्ठं तु तत् | सहस्रच्छिद्रतया अतिदुर्बलत्वात् ! 'अनाद्यविच्छिन्नसम्प्रदायागत मिति मिथ्या | जग-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५५२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति