पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 37 ) पश्च । भवतु । प्रश्नः साक्षात् समाधेयः इत्युक्तः सः जोषमेचास्त । सम्भावितेषु विद्वत्सु सदो व्यरूटत । अन्यदा कदाचित् अद्वैतमत्वं सदसि विवृण्वन् तद्वित् ‘पश्यत श्रुतिवाक्यस्वरससिद्धमद्दतं न वेति । पौठमानयेत्युक्तः कर्मकरः पीठे य उपविष्टः तं ततोऽधगमय्य हि पीठमान यति । तथा तत्त्वमसीत्यत्र तत्त्वम्पदाभ्यां प्रतीतविशेषपरिहारेण अभेदो बोध्यत इति ननु सूपपन्नमेतत्' इति भाषते स्म । धनपेटीम नयेत्युक्तेन कर्मकरेण किं पेटीमुद्धाट्य अन्तः स्थितं सर्वमपनीय केचला पेटी आनेया? तत्तद्वस्तुसामथ्र्येन हि ईदृशो विशेषोऽवगम्यते । न वाक्यस्वारस्येन । तत्त्वमसिवाक्यस्यारस्यं तु सिंहो देवदत्तः, अयमात्मा ब्राह्मण इत्यादौ यादृशोऽर्थः तादृश एवार्थे । न निर्चिxषवस्तुनि । अप्रसिद्धत्वात् । एवमादिवृत्तैः‘परमार्थतः अवैतचित् न कोऽप्यस्ति । न कोऽपि भवेदिति निश्चिता मतिरभूत् । नायं पुरुषदोषः । अपि तु मतदोषः । सर्वप्रम- णोपपत्तिविरुद्धं मतं धीमताभप्रेभरेण क् िकेन रक्षितुं शक्यते । अथवा किं रदणोक्तया । बुद्धाचारोपयितुमेव केन शक्यते ? कुम्नप्रसक्तिसूत्रे श्रीशङ्कर आह नैष दोपः। अविद्याकल्पितरूपभेदाभ्युपगमात् । न ह्यविद्याकल्पतेन रूपभेदेन'सावयवं वस्तु सम्पद्यते : न हि तिमिरोपहितनयनेन अनेक इव चन्द्रभा दृश्यमानोऽनेक एव भवति । अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्यकृतात्मकेन तत्त्वन्यत्वाभ्यां मनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते । पारमार्थिकेन च रूपेण सर्वव्यहारातीतं अपरिणतं अवतिष्ठते इति । चन्द्र एक एव । तिमिरोपहतनयनः पुरुषः नयनदोषेण तमनेक मिव पश्यति । तस्मिन् अनेकत्वभिदं पुरुषगतभ्रमरूपाविद्यया कल्पि तम् । अतस्तस्य पारमार्थि क्रमेकत्वम् । अविद्याकलितमनेकत्वमित्यु- प पद्यते । चन्द्रमसः पुरुषेण वा अविद्यया वा न कश्चित् सम्बन्धः । अतः