पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१०३

पुटमेतत् सुपुष्टितम्
९३
षष्ठोऽङ्कः ।

शाखारोधस्थगितवसुधामण्डले मण्डिताशे
 पीनस्कंधे सुसदृशमहामूलपर्यन्तबन्धे ।
दग्धे दैवात्सुमहति तरौ तस्य सूक्ष्माङ्कुरेऽस्मि-
 न्नाशाबन्धं कमपि कुरुते छाययार्थी जनोऽयम् ॥ २६ ॥

द्रौपदि ! साधये इदानीध्यवसितम् । ( कञ्चुकिनमवलोक्य । ) आर्य जयंधर ! अस्मच्छरीरेण शापितोऽपि तथापि न गम्यते ? ।

 कञ्चुकी--( साक्रन्दम् ।) हा देव पाण्डो ! तव सुतानामजातशत्रु भीमार्जुननकुलसहदेवानामयं दारुणः परिणामः ! हा देवि कुन्ति ! भोजराजभवनपताके !

भ्रातुस्ते तनयेन शौरिगुरुणा श्यालेन गाण्डीविन-
 स्तस्यैवाखिलधार्तराष्ट्रनलिनीव्यालोलने दन्तिनः ।
आचार्येण वृकोदरस्य हलिनोन्मत्तेन मत्तेन वा ।
 दग्धं त्वत्सुतकाननं ननु मही यस्याश्रयाच्छीतला ॥ २७ ॥

( इति रुदन्निष्क्रान्तः ।)

 युधिष्ठिरः--जयंधर, जयंधर,

( प्रविश्य ।)

 कञ्चुकी--आज्ञापयतु देवः ।

 युधिष्ठिरः--वक्तव्यमिति ब्रवीमि । न पुनरेतावन्ति भागधेयानि नः । यदि कदाचिद्विजयी स्याद्वत्सोऽर्जुनस्तद्वक्तव्योऽस्मद्वचनाद्भवता ।

हली हेतुः सत्यं भवति मम वत्सस्य निधने
 तथाप्येष भ्राता सहजसुहृदस्ते मधुरिपोः ।
अतः क्रोधः कार्यो न खलु यदि च प्राणिषि ततो
 वनं गच्छेर्मा गाः पुनरकरुणां क्षात्रपदवीम् ॥ २८ ॥

 कञ्चुकी--यदाज्ञापयति देवः । ( इति निष्कान्तः ।)

 युधिष्ठिरः--( अग्निं दृष्ट्वा सहर्षम् । ) कृष्णे ! ननूद्धतशिखाहस्ताहूतास्मद्विधव्यसनिजनः समिद्धो भगवान्हुताशनस्तत्रेन्धनीकरोम्यात्मानम् ।

द्रौपदी-–पसिअदु महाराओ इमिणा अपच्छिमेण पणएण । अहं दाव अग्गदो पविसामि । ( प्रसीदतु महाराजोऽनेनापश्चिमेन प्रणयेन । अहं तावदग्रतः प्रविशामि । )