पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१३

पुटमेतत् सुपुष्टितम्
प्रथमोऽङ्कः ।

 पारिपार्श्विकः-—न खलु न जाने । किंत्वमङ्गलाशंसयास्य वो वचनस्य यत्सत्यं कम्पितमिव मे हृदयम् ।

 सूत्रधारः–-मारिष, ननु सर्वमेवेदानीं प्रतिहतममङ्गलं स्वयं प्रतिपन्नदौत्येन संधिकारिणा कंसारिणा । तथा हि ।

निर्वाणवैरदहनाः प्रशमादरीणां ।
नन्दन्तु पाण्डुतनयाः सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च
स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ ७ ॥

( नेपथ्ये । साधिक्षेपम् । )

आः दुरात्मन्वृथामङ्गलपाठक शैलूषापसद,

लाक्षागृहानलविषान्नसभाप्रवेशैः
प्राणेषु वित्तनिचयेषु च नः प्रहृत्य ।
आकृष्य पाण्डववधूपरिधानकेशा-
न्स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ॥ ८ ॥

( सूत्रधारपारिपार्श्विकावाकर्णयतः। )

 पारिपार्श्विकः—-भाव ! कुत एतत् ।

 सूत्रधारः--( पृष्ठतो विलोक्य । ) अये, कथमयं वासुदेवगमनात्कुरुसंधानममृष्यमाणः पृथुललाटतटघटितविकटभ्रुकुटिना दृष्टिपातेनापिबन्निव नः सर्वान्सहदेवेनानुगम्यमानः क्रुद्धो भीमसेन इत एवाभिवर्तते । तन्न युक्तमस्य पुरतः स्थातुम् ।

( इति निष्क्रान्तौ )

प्रस्तावना ।

( ततः प्रविशति सहदेवेनानुगम्यमानः क्रुद्धो भीमसेनः ।)

 भीमसेनः--आः दुरात्मन्वृथामङ्गलपाठक शैलूषापसद । ('लाक्षागृहानल-'( १।८ ) इत्यादि पुनः पठति । )

 सहदेवः—-( सानुनयम् । ) आर्य, मर्षय मर्षय । अनुमतमेव नो भरतपुत्रस्यास्य वचनम् । पश्य । ('निर्वाणवैरदहनाः' ( १।७ )इति पठित्वान्यथाभिनयति ।)