पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१८

पुटमेतत् सुपुष्टितम्
वेणीसंहारे

 भीमसेनः--(दृष्ट्वा सादरम् ।) देवि ! समुद्धतामर्षैरस्माभिरागतापि भवती नोपलक्षिता । अतो न मन्युं कर्तुमर्हसि ।

 द्रौपदी-–णाह उदासीणेसु तुम्हेसु मह मण्णू, ण उण कुविदेसु । (नाथ उदासीनेषु युष्मासु मम मन्युर्न पुनः कुपितेषु ।)

 भीमसेनः--यद्येवमपगतपरिभवमात्मानं समर्थयस्व (हस्ते गृहीत्वा पार्श्वे समुपवेश्य मुखमवलोक्य ।) किं पुनरत्रभवतीमुद्विग्नामिवोपलक्षयामि ।

 द्रौपदी-–णाह ! किं उव्वेअकालणं तुम्हेसु सण्णिहिदेसु ! ( नाथ ! किमुद्वेगकारणं युष्मासु सन्निहितेषु ?)

 भीमसेनः--किमिति नावेदयसि ? ( केशानवलेक्य) अथवा किमावेदितेन ?

जीवत्सु पाण्डुपुत्रेषु दूरमप्रोषितेष्वपि ।
पाञ्चालराजतनया वहते यदिमां दृशाम् ॥ १८ ॥

 द्रौपदी--हञ्जे बुद्धिमदिए कहेहि णाहस्स को अण्णो मह परिहवेण खिज्जइ ? (हञ्जे बुद्धिमतिके। कथय नाथाय कोऽन्यो मम परिभवेन खिद्यते ।)

 चेटी--जं देवि आणवेदि । (भीममुपसृत्य । अञ्जलिं बद्ध्वा ।) सुणादु कुमालो । इदोवी अहिअदरं अज्ज उव्वेअकालणं आसी देवीए । (यद्देव्याज्ञापयति । शृणोतु कुमारः । इतोऽप्यधिकतरमद्योद्वेगकारणमासीद्देव्याः ।

 भीमसेनः--किं नामास्मादप्यधिकतरम् ? बुद्धिमतिके | कथय ।

कौरव्यवंशदावेऽस्मिन्क एष शलभायते ?।
मुक्तवेणी स्पृशन्नेनां कृष्णां धूमशिखामिव ॥ १९ ॥

 चेटी--सुणादु कुमालो । अज्ज क्खु देवी अम्बासहिदा सुभद्दाप्पमुहेण सवित्तिवग्गेण परिवुदा अज्जाए गन्धालीए पादवन्दणं कादुं गदा । (शृणोतु कुमारः । अद्य खलु देव्यम्बासहिता सुभद्राप्रमुखेण सपत्नीवर्गेण परिवृता आर्याया गान्धार्याः पादवन्दनं कर्तुं गता ।)

 भीमसेनः--युक्तमेतत् । वन्द्याः खलु गुरवः । ततस्ततः ।

 चेटी---तदो पडिणिवुत्तमाणा भाणुमदीए दिठ्ठा । (ततः प्रतिनिवर्तमाना भानुमत्या दृष्टा )

 भीमसेनः--(सक्रोधम् ।)आः, शत्रोर्भार्यया दृष्टा ? हन्त, स्थानं क्रोधस्य देव्याः । ततस्ततः ।