चेटी--तदो ताए तेवीं पेक्खिअ सहीजणदिण्णादिठ्ठएि सगव्वं ईति विहसिअ भणिअं । (ततस्तया देवीं प्रेक्ष्य सखीजनदत्तदृष्ट्या सगर्वमीषद्विहस्य भणितम् ।)
भीमसेनः--न केवलं दृष्टा उक्ता च ? अहो किं कुर्मः । ततस्ततः ।
चेटी--अइ जण्णसेणि ! पञ्च ग्गामा पत्थीअन्ति त्तिसुणीअदि । ता कीस दाणीं वि दे केसा ण संजमीअन्ति ? (अयि याज्ञसेनि ! पञ्च ग्रामाः प्रार्थ्यन्त इति श्रूयन्ते तत्कस्मादिदानीमपि ते केशा न संयम्यन्ते ? )
भीमसेनः--सहदेव ! श्रुतम् ?
सहदेवः––आर्य ! उचितमेवैतत्तस्याः । दुर्योधनकलत्रं हि सा । पश्य
स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसदृशानि । |
भीमसेनः--बुद्धिमतिके ! ततो देव्या किमभिहितम् ?
चैटी--कुमाल ! जइ परिजणहीणा भवें तदो देवी भणादि (कुमार ! यदि परिजनहीना भवेत्तदा देवी भणति ।)
भीमसेनः--किं पुनरभिहितं भवत्या ?
चेटी--कुमाल ! एव्वं मए भणिदं अइ भाणुमदि ! तुह्माणं अमुकेसु केसहत्थेसु कधं अह्माणं देवीए केसा संजमीअन्ति त्ति । ( कुमार एवं मया भणितम् । अयि भानुमति ! युष्माकममुक्तेषु केशहस्तेषु कथमस्माकं देव्याः केशाः संयम्यन्त इति ।
भीमसेनः--(सपरितोषम् ) साधु बुद्धिमतिके ! साधु । तदभिहितं यदस्मत्परिजनोचितम् । (इति स्वाभरणानि बुद्धिमतिकायै प्रयच्छति । अधीरमासनादुतिष्ठन् । ) अयि पाञ्चालराजतनये ! श्रूयताम् । अचिरेणैव कालेन
चञ्चद्भुजभ्रमितचण्डगदामिघात- |
द्रौपदी--किं णाह ! दुक्करं तुए परिकुविदेण ? सव्वहा अणुगेह्णन्तु एदं ववसिदं दे भादरो ( किं नाथ ! दुष्करं त्वया परिकुपितेन ? सर्वथानुगृह्णन्त्वेतद्व्यवसितं ते भ्रातरः । )