सहदेवः--अनुगृहीतमेतदस्माभिः ।
(नेपथ्ये महान्कलकलः । सर्वे सविस्मयमाकर्णयन्ति ।)
भीमसेनः--
मन्थायस्तार्णवाम्भःप्लुतकुहरवलन्मन्दरध्वानधीरः
कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डः ।
कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः
केनास्मत्सिंहनादप्रतिरसितसखो दुंदिभिस्ताड्यतेऽयम् ॥ २२ ॥
प्रविश्य संभ्रांतः
कञ्चुकी--कुमार ! एष खलु भगवान्वासुदेवः ।
( सर्वे कृताञ्जलयः समुत्तिष्ठन्ति ।)
भीमसेनः--( ससंभ्रमम् ।) क्वासौ भगवान् ?
कञ्चुकी–-पाण्डवपक्षपातामर्षितेन सुयोधनेन संयन्तुमारब्धः ।
( सर्वे संभ्रमं नाटयन्ति ।)
भीमसेनः--किं संयतः ?
कञ्चुकी–-नहि नहि, संयन्तुमारब्धः ।
भीमसेनः--किं कृतं देवेन ?
कञ्चुकी--ततः स महात्मा दर्शितविश्वरूपतेजःसंपातमूर्छितमवधूय कुरुकुलमस्मच्छिबिरसंनिवेशमनुप्राप्तः कुमारमविलम्बितं द्रष्टुमिच्छति ।
भीमसेनः--( सहासम्) किं नाम दुरात्मा सुयोधनो भगवन्तं संयन्तुमिच्छति ? (आकाशे दत्तदृष्टिः) आः दुरात्मन्कुरुकुलपांसन ! एवमतिक्रान्तमर्यादे त्वयि निमित्तमात्रेण पाण्डवक्रोधेन भवितव्यम् ।
सहदेवः–आर्य ! किमसौ दुरात्मा सुयोधनहतको वासुदेवमपि भगवन्तं स्वरूपेण न जानाति ?
भीमसेनः--वत्स, मूढः खल्वयं दुरात्मा कथं जानातु । पश्य ।
आत्मारामा विहितरतयो निर्विकल्पे समाधौ
ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः ।
यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्ता-
त्तं मोहांधः कथमयममुं वेत्तु देवं पुराणम् ॥ २३ ॥