पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/६०

पुटमेतत् सुपुष्टितम्
५०
वेणीसंहारे

 दुर्योधनः--( रथादवतीर्य सगर्वं साकूतं च ।) कृतं स्यन्दनगमनकालातिपातेन ।

 सूतः--( सवैलक्ष्यं सकरुणं च ।) मर्षयतु मर्षयतु देवः ।

 दुर्योधनः-- धिक्सूत! किं रथेन? केवलमरातिविमर्दसंघट्टसंचारी दुर्योधनः खल्वहम् । तद्गदामात्रसहायः समरभुवमवतरामि ।

 सूतः-- देव! एवमेतत् ।

 दुर्योधनः-- यद्येवं किमेवं भाषसे ? पश्य ।

बालस्य मे प्रकृतिदुर्ललितस्य पापः
 पापं व्यवस्यति समक्षमुदायुधोऽसौ ।
अस्मिन्निवारयसि किं व्यवसायिनं मां
 क्रोधो न नाम करुणा न च तेऽस्ति लज्जा ॥ ५ ॥

 सूतः-- ( सकरुणं पादयोर्निपत्य । )एतद्विज्ञापयामि । आयुष्मन्! संपूर्णप्रतिज्ञेन निवृत्तेन भवितव्यमिदानीं दुरात्मना वृकोदरहतकेन । अत एवं ब्रवीमि ।

 दुर्योधनः-- ( सहसा भूमौ पतन् । )हा वत्स दुःशासन! हा मदाज्ञाविरोधितपांडव! हा विक्रमैकरस! हा मदङ्कदुर्ललित! हा अरातिकुलगजघटामृगेंद्र! हा युवराज ! क्वासि? प्रयच्छ मे प्रतिवचनम् ।

( इति निश्वस्य मोहमुपगतः ।)

 सूतः-- राजन् ! समाश्वसिहि समाश्वसिहि ।

 दुर्योधनः--( संज्ञां लब्ध्वा । निश्वस्य । )

युक्तो यथेष्टमुपभोगसुखेषु नैव
 त्वं लालितोऽपि हि मया न वृथाग्रजेन ।
अस्यास्तु वत्स तव हेतुरहं विपत्ते-
 र्यत्कारितोऽस्यविनयं न च रक्षितोऽसि ॥ ६ ॥

( इति पतति ।)

 सूतः--आयुष्मन् ! समाश्वसिहि समाश्वासहि ।

 दुर्योधनः--धिक्सूत ! किमनुष्ठितं भवता ?