पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/७२

पुटमेतत् सुपुष्टितम्
६२
वेणीसंहारे

पट्टिअं सरीरसंगलिदेहिं सोणिअबिंदुहिं लित्तमुहं बाणं कदुअ अहिलिहिअ प्पेसिदो देवस्स संदेसो (ततो देव शल्येन भणितम्-- 'अंङ्गराज! हततुरंगमो भग्नकूबरस्ते रथस्तन्न युक्तं भीमार्जुनाभ्यां सहायोद्धुम्' इति । ततः परिवर्तितो रथोऽवतारितः स्वामी स्यन्दनाद्बहुप्रकारं च समाश्वासितः । ततश्च स्वामिना सुचिरं विलप्य परिजनोपनीतमन्यं रथं प्रेक्ष्य दीर्घं निःश्वस्य मयि दृष्टिर्विनिक्षिप्ता । सुन्दरक! एहीति भणितं च । ततोऽहमुपगतः स्वामिसमीपम् । ततोऽपनीय शीर्षस्थानात्पट्टिकां शरीरसंगलितैः शोणितबिन्दुभिर्लिप्तमुखं बाणं कृत्वाभिलिख्य प्रेषितो देवस्य संदेशः ।( इति पट्टिकामर्पयति ।)

( दुर्योधनो गृहीत्वा वाचयति ।)

 यथा-- 'स्वस्ति! महाराजदुर्योधनं समराङ्गणात्कर्ण एतदन्तं कण्ठे गाढमालिङ्ग्य विज्ञापयति ।

अस्त्रग्रामविधौ कृती न समरेष्वस्यास्ति तुल्यः पुमा-
 न्भ्रातृभ्योऽपि ममाधिकोऽयममुना जेयाः पृथासूनवः ।
यत्संभावित इत्यहं न च हतो दुःशासनारिर्मया
 त्वं दुःखप्रतिकारमेहि भुजयोर्वीर्येण बाष्पेण वा ॥ १२ ॥'

 दुर्योधनः-- वयस्य कर्ण ! किमिदं ? भ्रातृशतवधदुःखितं मामपरेण वाक्शल्येन घट्टयसि ? । भद्र सुन्दरक! अथेदानीं किमारम्भोऽङ्गराजः ।

 सुन्दरकः-- देव ! अज्जवि आरभ्भो पुच्छीअदि ? अवणीदसरीरावरणो अप्पवहकिदणिच्चओ पुणो वि पत्थेण सह समलं मग्गदि । ( देव ! अद्याप्यारम्भः पृच्छ्यते ? । अपनीतशरीराव्रण आत्मवधकृतनिश्चयः पुनरपि पार्थेन सह समरं मार्गति ।)

 दुर्योधनः--( आवेगादासनादुत्तिष्ठन् ।) सूत ! रथमुपनय । सुन्दरक! त्वमपि मद्वचनात्त्वरिततरं गत्वा वयस्यमङ्गराजं प्रतिबोधय । 'अलमतिसाहसेन । अभिन्न एवायमावयोः संकल्पः । न खलु भवानेको जीवितपरित्यागाकाङ्क्षी । किं तु ।

हत्वा पार्थान्सलिलमशिवं बन्धुवर्गाय दुत्त्वा
 मुक्त्वा बाष्पं सह कतिपयैर्मन्त्रिभिश्चारिभिश्च ।
कृत्वान्योन्यं सुचिरमपुनर्भावि गाढोपगूढं
 संत्यक्ष्यावो हततनुमिमां दुःखितौ निवृतौ च ॥ १३ ॥