पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/७९

पुटमेतत् सुपुष्टितम्
६९
पञ्चमोऽङ्कः ।

 दुर्योधनः--

एकोऽहं भवतीसुतक्षयकरो मातः कियन्तोऽरयः ?
 साम्यं केवलमेतु दैवमधुना निष्पाण्डवा मेदिनी ॥ ९ ॥

( नेपथ्ये । कलकलानन्तरम् ।)

 भो भो योधाः! निवेदयन्तु भवन्तः कौरवेश्वराय! इदं महत्कदनं प्रवृत्तम् । अलमप्रियश्रवणपराङ्मुखतया । यतः कालानुरूपं प्रतिविधातव्यमिदानीम् । तथा हि ।

त्यक्तप्राजनरश्मिराङ्किततनुः पार्थाङ्कितैर्मार्गणै-
 र्वाहैः स्यन्दनवर्त्मनां परिचयादाकृष्यमाणः शनैः ।
वार्तामङ्गपतेर्विलोचनजलैरावेदयन्पृच्छतां
 शून्येनैव रथेन याति शिबिरं शल्यः कुरूञ्शल्ययन् ॥ १० ॥

 दुर्योधनः-- ( श्रुत्वा । साशंकम् । ) आः! केनेदमविस्पष्टमशनिपातदारुणमुद्घोषितम् ? कः कोऽत्र भोः ?

( प्रविश्य संभ्रान्तः । )

 सूतः-- हा! हताः स्मः । ( इत्यात्मानं पातयति ।)

 दुर्योधनः-- अयि! कथय ।

 धृतराष्ट्रसंजयौः-- कथ्यतां कथ्यताम् ।

 सूतः-- आयुष्मन्! किमन्यत् ? ।

शल्येन यथा शल्येन मूर्छितः प्रविशता जनौघोऽयम् ।
शून्यं कर्णस्य रथं मनोरथमिवाधिरूढेन ॥ ११ ॥

 दुर्योधनः-- हा वयस्य कर्ण !। ( इति मोहमुपगतः )

 गान्धारी--जाद ! समस्सस समस्सस । ( जात! समाश्वसिहि समाश्वसिहि ।

 संजयः-- समाश्वसितु समाश्वसितु देवः ।

 धृतराष्ट्रः-- भोः! कष्टं कष्टम् ।

भीष्मे द्रोणे च निहते य आसीदवलम्बनम् ।
वत्सस्य मे सुहृच्छूरो राधेयः सोऽप्ययं हत: ॥ १२ ॥

वत्स ! समाश्वसिहि समाश्वसिहि । ननु भो हतविधे!