पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/८२

पुटमेतत् सुपुष्टितम्
७२
वेणीसंहारे

 गान्धारी--जाद ! कदरो उण सो जस्सिं आसं ओलम्बिस्सम् । ( जात ! कतरः पुनः स यस्मिन्नाशामवलम्बिष्ये ।)

 धृतराष्ट्रः--किं वा शल्य उत वाश्वत्थामा ? ।

 संजयः--हा कष्टम् ।

मृते भीष्मे हते द्रोणे कर्णे च विनिपातिते ।
आशा बलवती राजञ्शल्यो जेष्यति पाण्डवान् ॥ २३ ॥

 दुर्योधनः--किं वा शल्येनोत वाश्वत्थाम्ना ? ।

कर्णालिङ्गनदायी वा पार्थप्राणहरोऽपि वा ।
अनिवारितसंपातैरयमात्माश्रुवारिभिः ॥ २४ ॥

( नेपथ्ये कलकलं कृत्वा )

भो भोः कौरवबलप्रधानयोधाः! अलमस्मानवलोक्य भयादितस्ततो गमनेन । कथयन्तु भवन्तः कस्मिन्नुद्देशे सुयोधनस्तिष्ठतीति ।

( सर्वे ससंभ्रममाकर्णयन्ति )

( प्रविश्य संभ्रान्तः )

 सूतः–-आयुष्मन् !

  प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः ।

 सर्वेः--कश्च कश्च ? ।

 सूतः--

  स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ॥ २५ ॥

 गान्धारी--( सभयम् ) जाद ! किं एत्थ पडिपज्जिदव्व्म् । ( जात! किमत्र प्रतिपत्तव्यम् ।)

 दुर्योधनः-- ननु संनिहितैवेयं गदा ।

 गान्धारी--हा हदम्हि मन्दभाइणी । ( हा हतास्मि मन्दभागिनी ।)

 दुर्योधनः--अम्ब! अलमिदानीं कार्पण्येन । संजय, रथमारोप्य पितरौ शिबिरं प्रतिष्ठस्व । समागतोऽस्माकं शोकापनोदी जनः ।

 धृतराष्ट्रः-- वत्स! क्षणमेकं प्रतीक्षस्व यावदनयोर्भावमुपलभे ।

 दुर्योधनः-- तात! किमनेनोपलब्धेन ? ।