धृतराष्ट्रः--( आकर्ण्य सहर्षम् । ) वत्स दुर्योधन ! द्रोणवधपरिभवोद्दीपितक्रोधपावकः पितुरपि समधिकबलः शिक्षावानमरोपमश्चायमश्वत्थामा प्राप्तः । तत्प्रत्युपगमनेन तावदयं संभाव्यतां वीरः ।
गान्धारी--जाद ! पच्चुग्गंच्छ एदं महाभाअम् । ( जात ! प्रत्युद्गच्छैनं महाभागम् ।)
दुर्योधनः--तात! अम्ब ! किमनेनाङ्गराजवधाशंसिना वृथायौवनशस्त्रबलभरेण ? ।
धृतराष्ट्रः--वत्स ! न खल्वस्मिन्काले पराक्रमवतामेवंविधानां वाङ्मात्रेणापि विरागमुत्पादयितुमर्हसि ।
( प्रविश्य )
अश्वत्थामा--विजयतां कौरवाधिपतिः ।
दुर्योधनः--( उत्थाय । )गुरुपुत्र ! इत आस्यताम् । ( इत्युपवेशयति ।)
अश्वत्थामा--राजन्दुर्योधन ।
कर्णेन कर्णसुभगं बहु यत्तदुक्त्वा । |
दुर्योधनः--(साभ्यसूयम् । )आचार्यपुत्र !
अवसानेऽङ्गराजस्य योद्धव्यं भवता किल । |
अश्वत्थामा--( स्वगतम् । )कथम् ! अद्यापि स एव कर्णे पक्षपातः अस्मासु च परिभवः ? । ( प्रकाशम् । ) राजन्कौरवेश्वर ! एवं भवतु । ( इति निक्रान्तः )
धृतराष्ट्रः--वत्स ! क एष ते व्यामोहो ? यदस्मिन्नपि काल एवंविधस्य महाभागस्याश्वत्थाम्नो वाक्पारुष्येणापरागमुत्पादयसि ।
दुर्योधनः--किमस्याप्रियमनृतं च मयोक्तम् ? किं वा नेदं क्रोधस्थानम् ? पश्य--
अकलितमहिमानं क्षत्रियैरात्तचापैः । |