पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/८७

पुटमेतत् सुपुष्टितम्
७७
पञ्चमोऽङ्कः ।

परिवदति समक्षं मित्रमङ्गाधिराजं ।
 मम खलु कथयास्मिन्को विशेषोऽर्जुने वा ॥ ४० ॥

 धृतराष्ट्रः--वत्स! तवापि कोऽत्र दोषः? अवसानमिदानीं भरतकुलस्य । संजय! किमिदानीं करोमि मन्दभाग्यः? ( विचिन्त्य । ) भवत्वेवं तावत् । संजय! मद्वचनाद्ब्रूहि भारद्वाजमश्वत्थामानम् ।

स्मरति न भवान्पीतं स्तन्यं विभज्य सहामुना ?
 मम च मृदितं क्षौमं बाल्ये त्वदङ्गविवर्तनैः ? ।
अनुजनिधनस्फीताच्छोकादतिप्रणयाच्च त-
 द्विकृतवचने माऽस्मिन्क्रोधश्चिरं क्रियतां त्वया ॥ ४१ ॥

 संजयः-- यदाज्ञापयति तातः । ( इत्युत्तिष्ठति ।)

 धृतराष्ट्रः-- अपि चेदमन्यत्त्वया वक्तव्यम् ।

यन्मोचितस्तव पिता वितथेन शस्त्रं
 यत्तादृशः परिभवः स तथाविधेऽभूत् ।
एतद्विचिन्त्य बलमात्मनि पौरुषं च ।
 दुर्योधनोक्तमपहाय विधास्यसीति ॥ ४२ ॥

 संजयः-- यदाज्ञापयति तातः । ( इति निष्क्रान्तः ।)

 दुर्योधनः-- सूत! साङ्ग्रामिकं मे रथमुपकल्पय ।

 सूतः-- यदाज्ञापयत्यायुष्मान् । ( इति निष्क्रान्तः ।)

 धृतराष्ट्र:--गान्धारि ! इतो वयं मद्राधिपतेः शल्यस्य शिबिरमेव गच्छामः । वत्स! त्वमप्येवं कुरु ।

( इति परिक्रम्य निष्क्रान्ताः सर्वे ।)

इति पञ्चमोऽङ्कः ।