पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/९०

पुटमेतत् सुपुष्टितम्
८०
वेणीसंहारे

नूनं तेनाद्य वीरेण प्रतिज्ञाभङ्गभीरुणा ।
बध्यते केशपाशस्ते स चास्याकर्षणक्षमः ॥ ६ ॥

पाञ्चालक! कथय कथय कथमुपलब्धः स दुरात्मा ? कस्मिन्नुद्देशे ? किं वाधुना प्रवृत्तमिति ? ।

 द्रौपदीः-- भद्द ! कहेहि कहेहि । ( भद्र ! कथय कथय ।)

 पाञ्चालकः--शृणोतु देवो देवी च । अस्तीह देवेन हते मद्राधिपता शल्ये गान्धारराजकुलशलभे सहदेवशस्त्रानलं प्रविष्टे सेनापतिनिधननिराक्रन्दविरलयोधोज्झितासु समरभूमिषु रिपुबलपराजयोद्धतवल्गितविचित्रपराक्रमासादितविमुखारातिचक्रासु धृष्टद्युम्नाधिष्ठितासु च युष्मत्सेनासु प्रनष्टेषु कृपकृतवर्माश्वत्थामसु तथा दारुणामपर्युषितां प्रतिज्ञामुपलभ्य कुमारवृकोदरस्य न ज्ञायते क्वापि प्रलीनः स दुरात्मा कौरवाधमः ।

 युधिष्ठिरः-- ततस्ततः ।

 द्रौपदी-- अयि! परदो कहेहि । ( अयि! परतः कथय ।)

 पाञ्चालकः--अवधत्तां देवो देवी च । ततश्च भगवता वासुदेवेनाधिष्ठितमेकरथमारूढौ कुमारभीमार्जुनौ समन्तात्समन्तपञ्चकं पर्यटितुमारब्धौ तमनासादितवन्तौ च । अनन्तरं दैवमनुशोचति मादृशे भृत्यवर्गे दीर्घमुष्णं च निश्वसति कुमारे बीभत्सौ जलधरसमयनिशासंचारितविद्युत्प्रकरपिङ्गलैः कटाक्षैरादीपयति गदां वृकोदरे यत्किंचनकारितामधिक्षिपति विधेर्भगवति नारायणे कश्चित्संविदितः कुमारस्य मारुतेरुज्झितमांसभारः प्रत्यग्रविशसितमुमृगलोहितचरणनिवसनस्त्वरमाणोऽन्तिकमुपेत्य पुरुषः श्वासग्रस्तार्धश्रुतवर्णानुमेयपदया वाचा कथितवान् ‘अस्मिन्महतोऽस्य सरसस्तीरे द्वे पदपद्धती समवतीर्णप्रतिबिम्बे तयोरेका स्थलमुत्तीर्णा न द्वितीया । परत्र कुमारः प्रमाणमिति । ततः ससंभ्रमं प्रस्थिताः सर्वे वयं तमेव पुरस्कृत्य । गत्या च सरस्तीरं परिज्ञायमानसुयोधनपदलाञ्छनां पदवीमासाद्य भगवता वासुदेवेनोक्तम्-- ‘भो वीर वृकोदर! जानाति किल सुयोधनः सलिलस्तम्भनीं विद्याम् । तन्ननं तेन त्वद्भयात्सरसीमेनामधिशयितेन भवितव्यम् ।' एतच्च वचनमुपश्रुत्य रामानुजस्य सकलदिङ्निकुञ्जपूरितातिरिक्तमुद्भ्रान्तसलिलचरशकुन्तकुलं त्रासोद्धतनक्रग्राहमालोड्य सरःसलिलं भैरवं च गर्जित्वा कुमारवृकोदरेणाभिहितम्--