पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/९१

पुटमेतत् सुपुष्टितम्
८१
षष्ठोऽङ्कः ।

'अरेऽरे वृथाप्रख्यापितालीकपौरुषाभिमानिन्! पाञ्चालराजतनयाकेशाम्बराकर्षणमहापातकिन्!

जन्मेन्दोर्विमले कुले व्यपदिशस्यद्यापि धत्से गदां
 मां दुःशासनकोष्णशोणितमधुक्षीबं रिपुं मन्यसे ।
दर्पान्धो मधुकैटभद्विषि हरावप्युद्धतं चेष्टसे
 त्रासान्मे नृपशो! विहाय समरं पङ्केऽधुना लीयसे ॥ ७ ॥

अपि च । भो मानान्ध!

पाञ्चाल्या मन्युवह्निः स्फुटमुपशमितप्राय एव प्रसह्य
 व्यामुक्तैः केशपाशैर्हतपतिषु मया कौरवान्तःपुरेषु ।
भ्रातुर्दुःशासनस्य स्रवदसृगुरसः पीयमानं निरीक्ष्य
 क्रोधात्किं भीमसेने विहितमसमये यत्त्वयास्तोऽभिमानः ॥ ८ ॥

 द्रौपदी-- णाह ! अवणीदो मे मण्णू जइ पुणो वि सुलहं दंसणं हुविस्सदि । ( नाथ! अपनीतो मे मन्युर्यदि पुनरपि सुलभं दर्शनं भविष्यति । )

 युधिष्ठिरः-- कृष्णे! नामङ्गलानि व्याहर्तुमर्हस्यस्मिन्काले। भद्र! ततस्ततः ।

 पाञ्चालकः-- ततश्चैवं भाषमाणेन वृकोदरेणावतीर्य क्रोधोद्धतं गदापरिघपाणिना सहसैवोल्लङ्घिततीरमुत्सन्ननलिनीवनमपविद्धमूर्च्छितग्राहमुद्भ्रान्तमत्स्यशकुन्तमतिभैरवारवभ्रमितवारिसंचयमायतमपि तत्सरः समन्तादालोडितम् ।

 युधिष्ठिरः-- भद्र! तथापि किं नोत्थितः ? ।

 पाञ्चालकः-- देव!

त्यक्त्वोत्थितः सरभसं सरसः स मूल-
 मुद्भूतकोपदहनोग्रविषस्फुलिङ्गः ।
आयस्तभीमभुजमन्दरवेल्लनाभिः
 क्षीरोदधेः सुमथनादिव कालकूटः ॥ ९ ॥

 युधिष्ठिरः-- साधु सुक्षत्रिय! साधु ।

 द्रौपदी-- पडिवण्णो समरो ण वा ? । ( प्रतिपन्नः समरो न वा ? । )

११