राक्षसः--( स्वगतम् । ) कथं पुनरनयोर्लब्धसंज्ञतामपनयामि । ( प्रकाशम् ।)
सीरी सत्वरमागतश्चिरमभूत्तस्याग्रतः सङ्गरः । |
युधिष्ठिरः--हा वत्स ! वृकोदर ! । ( इति मोहमुपगतः ।)
द्रौपदी--हा णाह भीमसेण ! हा मह परिवपडिआरपरिच्चत्त जीविअ ! हा जडासुरबअहिडिम्बकिम्मीरकीअअजरासन्धणिसूदण ! हा सोअन्धिआहरण चाडुआर ! देहि मे पडिवअणम् ( हा नाथ भीमसेन ! हा मम परिभवप्रतीकारपरित्यक्तजीवित ! हा जटासुरबकहिडिम्बकिर्मीरकीचकजरासंधनिषूदन ! हा सौगन्धिकाहरण चाटुकार ! देहि मे प्रतिवचनम् ।) ( इति मोहमुपगता । )
कञ्चुकी--( सास्रम् । )हा कुमार भीमसेन ! हा धार्तराष्ट्रकुलकमलिनीप्रालेयवर्ष ! ( ससंभ्रमम् । ) समाश्वसितु महाराजः । भद्रे ! समाश्वासय स्वामिनीम् । महर्षे ! त्वमपि तावदाश्वासय राजानम् ।
राक्षसः--( स्वगतम् । )आश्वासयामि प्राणान्परित्याजयितुम् ( प्रकाशम् ।)
भो भीमाग्रज । क्षणमेकमाधीयतां समाश्वासः । कथाशेषोऽप्यस्ति ।
युधिष्ठिरः--( समाश्वस्य !)महर्षे ! किमस्ति कथाशेषः ? ।
द्रौपदी--( प्रतिबुद्धा । )भअवं ! कहेहि कीदिसो कहासेसो त्ति । ( भगवन् ! कथय कीदृशः कथाशेष इति ।)
कञ्चुकी--कथय कथय ।
राक्षसः–-ततश्च गते तस्मिन्सुक्षत्रिये वीरसुलभां गतिं समग्रसंगलितं भ्रातृवधशोकजं बाष्पं प्रमृज्य प्रत्यग्रक्षतजच्छटाचर्चितां गदां भ्रातृहस्तादाकृष्य, निवार्यमाणोऽपि संधित्सुना वासुदेवेन, आगच्छागच्छेति सोपहासं भ्रमितगदाझङ्कारमूर्च्छितगम्भीरवचनध्वनिनाहूयमानः कौरवराजेन तृतीयोऽनुजस्ते किरीटी योद्धुमारब्धः । अकृतिनस्तस्य गदाघातान्निधनमुत्प्रेक्षमाणेन कामपालेनार्जुनपक्षपाती देवकीसूनुरतिप्रयत्नात्स्वरथमारोप्य द्वारकां नीतः ।