पृष्ठम्:वेदान्तकल्पतरुः.pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

तस्य व्यवहारानुपयेगात् । तन्न । अनविनाभाविभिरपि मञ्चैः पुरुषलक्षणात् । ननु मा भूदनविनाभावनियमस्तथापि वाच्यस्य लव्येण संबन्धो वाक्यार्थ चानन्वये वाच्यः । मज़ा हि संबद्धाः पुंभिर्न च वाक्यार्थे ऽन्त्रीयन्ते । ययाह शालिकनाथः ।

वाच्याथस्य च वाक्रयाय ससगानुपपांत्ततः ।
तत्संबन्धवशप्राप्तास्यान्वयाल्लक्षगोच्यते ॥ इति ।

तदिह गामानयेत्यादै न श्रौत्तार्थस्य वाक्यार्थेनानन्वयः । नाप्य न्वित्तस्य लक्षस्यास्त्यभिधेयेन संबन्धो ऽन्वितस्यान्वयान्तराभावात्तत इत् न लक्षणेति ।

अचोच्यते । मुख्यार्थपरियहे ऽनुपपत्तिस्तावलक्षणाया निदानं तच यथा पटेन पदार्थलक्षणायां वाच्यार्थस्य वाक्यार्थ संबन्धानुपपत्तिः एवं वाक्यार्थप्रत्ययेद्देशेन प्रयुक्तस्य पदवृन्दस्य ये ऽभिधया अनन्वितपदार्था स्तषां वाक्यार्थाभावानुपपत्तिरेवान्वितलक्षणाया निदानम् । न चान्वित्तरुपयस्या भिधेयस्वरूपेण संबन्धानुपपत्ति: । विशिष्टस्वरूपयेास्तादात्म्यस्य कस्यापि स्वीकारारु । नन्वेवमप्यभिहिताथैरर्थान्तररान्वितलक्षणायां कथं नियमः । अर्थान्तराणामानन्त्यात् । तदुच्यते " ।

आकाङ्काऽसत्तियेोग्यत्वसहितार्थान्तरान्वितान् ।
पदानि लक्षतयन्त्यर्थानिति नातिप्रसङ्गिता ।

प्रयेागस्तु गेपदं गामानयेति वाक्येनानयत्यन्वितगेात्ववाचकम् पदत्वातुरगपदवदिति ।

१०६ । ११ एतत्सर्वमाह एकेति । एष्क्रप्रयेोजनसिद्धापये॥गित्वं हि पदार्था नामितरेत्तरवैशिष्ट्रयमन्त्रेण न घटते ऽत्तः प्रयेाजनवत्वायैकवाक्यत्वाय च लक्षणया ऽन्वितपरत्वं पदानां वाच्यमित्यर्थः । ननु विशिष्टाना मप्यर्थानां भेदात्कयमेकवाक्यता ऽत् प्राह तथा चेति । गुणभूत् नानापटाथैविशिष्टप्रधानाथैस्यैश्यादेकवाक्यत्वमित्यर्थः । पदानामनन्विता


  • उच्यते परिहार इनि १ ए. पा ।