पृष्ठम्:वेदान्तकल्पतरुः.pdf/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८४
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.९
 

त्वमभ्युदयमाचमभ्युच्चयत्वं चाध्ययनविधेः पुरुषार्थत्वशङ्कायास्तत्रनिरास। इह संस्कारपरामणी*दित्यादिसूचैरध्ययनविधेःसंस्कारकर्मविषयत्वसमर्थनाच्च । अतो ऽनग्नीनामपि शूद्राणामग्न्यसध्ययां विद्यायामधिकार इति शङ्काय न गतार्थत्वमित्यर्थः । ननु कर्मण्यग्निवद्विद्यायमध्ययनं हेतुरित्याशङ्काह न चेति । अग्नि: कर्महेतुः स च न शूद्रस्य अध्ययनं तु विद्यायामनि २६३ । १० यतो हेतुः संभवति च शूद्रस्येत्युपपादयति यत इत्यादिना । आहच नीयादिसाध्ये कर्मणि शूद्रस्य माक्रिर इत्येतद्यतः कारणाद् युक्तं यतश्च विद्यायां शूद्रस्यासंभविसाधनमलैकिकं नास्ति सतस्त्वदुक्तमसांप्रतमिति योजना । अग्ने: कर्मसूपयेगमाह यदाहवनीये इति । ननु व्रहिवदाहवनीये ऽस्तु शूद्रस्य नेत्याह तद्रूपस्येति। संस्कृते ऽग्निराहवनीयः स चाः लेकिक इत्यप्रकरणाताद्वाक्यविहिताधानादेव लभ्य इत्यर्थः । आधान मपि द्विजातिसंबद्धे यदि क्रतुं कं चिदारभ्य विधीयेत तर्हि क्रत्वन्तरे शूद्रों ऽधिक्रियेत । न त्वेतदस्ति । तस्याग्निद्वारा सर्वक्रतुसाधारण्यदित्येचम नारभ्याधीनग्रहणम् । आधानमप्यस्तु शूद्रस्य नेत्याह आधानस्य चेति । बसन्तादिवाक्येनेत्यर्थः । विद्यायामौकिकं साधनं नास्तीत्यसिद्मध्ययन क्रियया लैकिकत्वे ऽपि तन्नियमस्य वैधत्वादिति शङ्कां परिहरति न वि कल्पासहत्वादिति । नानोपायसाध्ये ऽक्षराधिगमे अध्ययनं नियम्यमानं पुरुषार्थे तस्मिन्नियम्येतेत क्रत्वर्थे इति विकल्प्य द्वितीयं निरस्यति न तावादिति । अध्ययननियमस्य क्रत्वर्थम्श्रितत्वं प्रकरणाद्वायाङ्गसि विंक ,, । १२ ल्प्यायं निरस्य द्वितीयं प्रत्यहं न चाऽनारभ्येति । व्यनया हि जुड़ा क्रते व्यापके बुद्धिस्थीकृते आश्रयं प्रणेतां क्रतुना सबन्धयत स्वाध्यायस्तु स्वशाखात्मको ऽवयवी न कर्मविशेषेण व्याप्त इत्यनुपस्थापिते कर्मणि कथं वांक्यमथ्ययनस्य कर्मसंबन्धं ब्रूयादित्यर्थः । नन्वज्ञातेषये कथं पुरुषेच्छासः प्रवृत्तिरत आह तदुपाये ऽपि हीति । फलमभिलषंस्तदुपायमप्यनुष्ठेयं मन्यते विषं नु न वेदेति । तर्हि करण्यैतिकर्तव्यतायमपि सामान न्यप्रवृत्तिरिच्छाधीनेत्याशङ्कयाह इतिकर्तव्यतास्विति । अनधिगतः करणविशेषो विधिते येन पुंसा स इतिकर्तव्यतासु न घटते न


१८४ व्या• सू• अ• १ ग• ३ सू• ३८ ।