पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१०

पुटमेतत् सुपुष्टितम्

अमुक्ताश्चोत्तममध्यमाधमभेदेन त्रिविधः। तत्रोत्तमा मुक्तियोग्याः। देवर्षिभगवद्भक्तादयः। मध्यमाः केवलकर्मठाः नित्यसंसारिणः। अथमा भगवद्वेषिणो दैत्यरक्षः प्रभृतयो नित्यनारकाः । अचेतनोऽपि नित्यानित्यभेदेन द्विविधः । देशकालादयो नित्याः । कार्यजातं सर्वमनित्यम् । ते च मुक्तियोग्या जीवा अंकननामकरणभजनरूपत्रिविधभगवच्छेवया पुनरावृत्तिरहितं विष्णुलोकं प्राप्नुवन्ति । सैव मुक्तिरिति ।

 वैशेषिकास्तु द्रव्यगुणकर्मसामान्यविशेषसमवायाभावभेदेन सप्तपदार्थानंगीकुर्वन्ति । आत्मानो ज्ञानेच्छादिगुणकाः । नानाच ते च प्रवृत्तिरूपाद्धर्मादभ्युदयं लभन्ते । निवृत्तिरूपान्निश्श्रेयसम् । दुःखध्वंस एव मोक्षः । तदानीं ज्ञानेच्छादीनामभावान्मोक्षे जडीभूतास्तिष्ठन्ति । धर्मेणैव सर्वनिर्वाहेणालमीश्वरेणेति वदन्ति ।

 गौतमीयास्तु वैशेषिकाभ्युपगतं सर्वमप्यंगीकृत्य नित्यज्ञानाद्याश्रितमीश्वर- मप्यंगीकुर्वन्ति ।

 सांख्यास्तु। जीवा निर्लिप्ताश्शुद्धज्ञानस्वरूपा बंधमोक्षव्यवस्थानुरोधेन नाना सत्त्वरजस्तमोगुणात्मिका प्रकृतिर्जगतः कर्त्री, तद्विकारभूता महदादयः, तत्र महत्तत्त्वं बुद्धिः, तदेव च भोक्तृत्वादिधर्मविशिष्टम्, प्रकृतिपुरुषयोर्भेदाग्रहेण चेतने बुद्धिनिष्ठभोक्तृत्वरूपेण बद्धत्वव्यवहारः, तद्विवेके सत्यारोपनिमित्ताभावादात्मनः स्वस्वरूपेण स्थितिस्संपद्यते, सैव मुक्तिरिति । एतन्मते ईश्वरो नास्त्येव । जगत्सृष्टृत्वेन हि तत्सिद्धिः । परमकारुणिकस्यावाप्तसकलकामस्य कामनाभावात्परमकारुणिकत्वेन दुःखहेतुभूतजगत्सर्जनासंभवात् कारुणिको हि परकीयदुःखहेतुभूतं न किंचिदपि कल्पयते । तथा सति कारुणिकत्वस्य भंगापत्तेरिति ।

 जैमिनीया वैशेषिकवद्धर्मेणैव सर्वनिर्वाहं अभ्युपगच्छन्त ईश्वरं प्रतिक्षिपन्ति। एतन्मते जीवात्मनो बोधाबोधस्वरूपाः। ते च धर्माधर्मवशाद्वद्धा भवन्ति । क्रमेणाधमें विनष्टे दुःखासंभिन्नसुखरूपं अनंतं स्वर्गम् लभन्ते । स एव मोक्ष इति ।

 योगिनस्तु जडस्य धर्मस्य फलदानाक्षमत्वादीश्वरमप्यभ्युपगच्छन्ति । अन्यस्सर्वं सौख्योक्तमेवाभ्युपगच्छन्ति ।

 एवं बहुधा विप्रतिपन्नेषु तत्तद्दर्शनकारेषु तत्तदभ्युपगतमात्मानं यथा योग- मन्नमयादिपंचकोशेष्वंतर्भावयन्तो वेदान्तिनो नित्यबुद्धमुक्तस्वभावं सत्यज्ञानानन्द-